________________
गीर्वाणभाषायां भगवत्कृपया परेलक्षाः, अनन्ताः सुमधुराः, सुवाच्याश्च शब्दराशय एतदर्थं विद्यन्ते । तथाऽपि साङ्कर्यपूजकाः महापुरुषाः स्वपुत्रीणां 'रीता', 'अनिता' इति आङ्ग्लाभिनेत्रीसुलभानि नामानि साग्रहं गृह्णन्तो 'लौकिकमाह्लादं गौरवं चाऽनुभवन्ति !! पाश्चात्यनामानि "ड्रिंकवाटर" डूलिटिल " इत्यादीनि न सन्त्यन्वर्थानि, किन्त्वस्माकं भारते सार्थकानि ललितानि नामधेयानि पर:- सहस्त्रम् । तथापि ये स्वपुत्रस्य भारतीयं नाम 'गोपाल' इत्यपि "जी. पाल" इति लिखन्ति तेषां विदेशीयनामप्रेम कथंकारमुचितम् ? इतश्च विदेशीया भारतीयनाम्नां सौभगेन एतावन्मुग्धा यत्स्वसन्ततीनामेव न, अपि तु स्वभवनानां स्वव्यापारसंसारस्य चाऽपि नाम भारतीयं कर्तुं लालायन्ते । काश्मीर - देशवासी एक: आंग्ल भारतीयः (एंग्लो इंडियन) मदीयस्य भवनस्य "मंजुनिकुंज " इति नाम दृष्ट्वा इयान्मुग्धः समभूत् यत् स्वकीयस्य निर्मास्यमानस्य भवनस्य तदिदं नाम स्यादित्यर्थं मत्सकाशादनुमतिं ग्रहीतुमसावागच्छत् । स्मरामि यच्छार्मण्यदेशीयेनैकेन विदुषा स्वकीयं नाम " कण्वः" प्रसेधितमासीत् । ऑक्सफर्डनगरे तुलनात्मकभाषाविज्ञानस्य (कम्पेरेटिव फिलोलोजी) प्राध्यापकेन मैक्समूलर (मैक्स म्यूलर ) नामकेन सुग्रथितेन पुरातत्त्वविदा तु स्वकीयनाम्नो भारतीयकरणं "मोक्षमूलरभट्टः" इति कृतमासीत् । लिखितमेकत्र तेन स्वलिखितवेदभाष्यस्य पुष्पिकायाम् -
"शार्मण्यदेशजातेन श्रीगोतीर्थनिवासिना । मोक्षमूलरभट्टेन भाष्यमेतद् विलेखितम् ॥" (Ox = गो: Ford = तीर्थम्)
इत्यादि ।
विदेशजातेषु विद्वत्सु भारतीयनाम्नां कृते यदा इयानादरस्तदा दुर्भाग्यहता आङ्ग्लानां भारतवासिनो मानसपुत्रा रीता - अनितादिनाम्नामाम्रेडनं कुर्वन्तो गर्वायन्ते - इत्यतो अधिकं किं भवेद्दौर्भाग्यम् । सौराष्ट्रदेशीयाः जानन्ति यद् गुर्जरदेशस्था मोगला अपि स्वनाम्ना सह 'यूसुफ धर्मसी', 'हबीब पद्मसी' इत्यादि धर्मश्रीपद्मश्री आदि-संस्कृतशब्दसाम्यं वहतः शब्दान् प्रयुञ्जाना न सङ्कुचन्ते । 'हाजी जेठा गोकुल' - नाम्ना प्रसिद्धो व्यापारी मुगल एव ।
स्मराम्येकं पुरातनं वृत्तं यद् यदा रूसदेशस्थ भारतीयदूतावासो भारतीयः सन्नपि विदेशीयामाङ्ग्लभाषामेव व्यवाहरत् स्वनामपट्टमपि 'एम्बसी' (एम्बेसी) इत्येवाऽलिखत् तदा रूससर्वकारेण पत्रमेकं विलिख्य भारतसर्वकारोऽनुरुद्धो - यत् रूसस्थे भारतीयदूतावासे भारतीया हिन्दी भाषा आहोस्वित् रूसीयभाषैव व्यवहार्या, नाऽऽङ्ग्ली भाषा इति । तदा संसदि विमर्शानन्तरं प्रधानमन्त्रिमहानुभावेन प्राचीननीतिशास्त्रानुमोदितं 'दूतावास' इति नाम यथाकथञ्चिदधिगतं, तत्प्रभृति च तदेव तत्र प्रचलति ! हिन्देशियायां विश्वविद्यालयीया उपाधयः सन्ति धर्माध्यक्ष, उपाध्याय, आचार्य इत्यादय: । वयं तु बी.ए., एम.ए., एम.एस.सी., पीएच.डी. इत्यादीनि वैदेशिकलिपिघटितान्युपाधिनामानि शिरसा वहामः । अस्माभिरपरमप्येकम् इण्डोनेशिया - सर्वकारस्य संस्कृतनामस्नेहस्य प्रमाणं समुपलब्धम् । हिन्देशियायाः वायुयानसेवाव्यवस्थाया नामकरणार्थे तत्र "गरुड" पदस्य गरुडचिह्नस्य च मनोनयनं सर्वसम्मत्यां अभूत् ।
४६