SearchBrowseAboutContactDonate
Page Preview
Page 24
Loading...
Download File
Download File
Page Text
________________ (४) दौपदी - पाचालीश्रुतया पाण्डववृतया स्थिरदर्शनयाऽनतिचरितं, वसुधाचरितम् । प्रकुपितनारदया पद्माहृतया, हरिसंप्रापितया मुदितं, विदितं विदितम् ॥ पतिसंरक्षितया गहनं गतया नतया नतया शंगणितं, कुशलं रणितम् । श्रुतविगतचरितया दुपदात्मजया नेमिसमीपे संयमितं ब्रह्मस्वरितम् ॥४॥ कौशल्या नयविजितसपत्नी, दशरथपत्नी, जगतिमता नररत्नप्रसूः शुचिशीलवसुः । वनगततनयाश्रुः, सीताश्वश्रूः, दिनकरसमसुतविरहव्रतधृतधैर्यरतिः ॥ गतभवभवदुरितं, ज्ञात्वा त्वरितं तदुपशमाय प्रयत्नवती, परमात्ममतिः । परिहृतगुणशल्या श्रीकौशल्या समसुखदुःखा जयतितरां भुवने नितराम् ॥५॥ . (६) शतबलवररमणी, रूपसुरमणी, द्योतनकमिता विपदमिता, न व्रताच्चलिता । विहितोदयनहिता, कल्मषरहिता चेटकनृपदुहिताऽवहिता, सुकृतान्महिता ॥ प्रविदितदुष्कारा, समसंसारा, प्रवजिता जिनक्चनरता, क्षममनवगता। सतितीक्षणप्रणतिः केवलमहती, मृगावती रमते परमेऽभयदे चरमे ॥६॥ हरिसुररक्षितयाऽचलदर्शनया सड़तवरया दशनमितास्तनया जनिताः । युगपद्धृतसुतया विदितचरितया नागरथिकप्रियया हृदयं न कृतं सभयम् ॥ जिनशुभलाभितया सुपरीक्षितया कथमपि मनसि न संशयितं स्वात्मनि दयितम् । भाचिनि निर्ममया जनुषि सुलसया जिनवरकर्मकृतौ यतितं यशसा प्रथितम् ॥७॥ दशरथसुतदयिता दशमुरवनीता सङ्कटपतिता नहि पतिताऽकलबलकलिता । कोशलमानीता रजकविगीता नविगीताऽपि वने प्रहिता, समुदितदुरिता ॥ लवणाङ्कुशमहिता दहने दहिता न ज्वलिता परमुज्ज्वलिताद्भुतऋतचरिता । साकेते गीता भवभयभीता सीता साध्वी स्वर्गमिताऽच्युतपतिविदिता ॥८॥ सुभद्रा जिनवरमतबुद्धा श्रद्धाशुद्धा सौगततनयेनाऽक्षिकृता, कपटेन वृता । श्रुतपतिकुलधर्मा स्थिरनिजकर्मा प्रियप्रसुवा परमं व्यथिताऽकथितं कथिता । हृतरसनक्रीडा-मुनिदृक्पीडा देवीविहितसदनुकम्पाउनावृतचम्पा। उदितोदितभद्रा सती सुभद्रा, जितनिद्रा शमिताभद्रा, वृतशिवभद्रा ॥४॥
SR No.521034
Book TitleNandanvan Kalpataru 2015 08 SrNo 34
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2015
Total Pages86
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy