________________
सतीसूक्तषोउशिका स्व. आ. श्रीविजयधर्मधुरन्धरसूरिः
ग्राही
दक्षिणकरदक्षा पक्षवलक्षा भगवदुपज्ञमधीतवंती, गिरममितमतिः। वरवरदा यतिनी प्रथमा वतिनी प्रथमजिनपतीर्थप्रथिता, मथितव्यथिता ॥ वरबाहुबलीनं संवरलीनं गमितुमनाः श्रिततक्षशिला, शुभग्रहग्रहिला । स्मृतगतभवमाया विजितकषाया भवजलपारं मुक्तिमिता ब्राह्मी नमिता ॥१॥
___ (२) प्रतिलाभितवीरा, जलधिगभीरा, धीरा सुरगिरिणा तुलिता गुणगणकलिता । गतभवजलतीरा, श्रीनासीरा, संयमचीरालडुरणा, जितमोहरणा ॥ चन्दनसमशीता जिनपतिगीता चित्रचरित्रा धर्मधना, गतजनिनिधना । व्रतिनीवरशाला चन्दनबाला चरमजिनेश्वरसाध्वितमा, वृतमुक्तिरमा ॥२॥
चन्दनवाला
राजीमती
नरपतिवरतनया विदितनया वय आप्तवती मधुरं मधुरं, किलकामधुरम् । यदुपतिमनुरक्ता सततं सक्ता व्रतवति भगवति मोहमिता, मनसा दमिता ॥ नवभवसम्बन्धं प्रणयप्रबन्धं स्मारं स्मारं यातवती, जिनमेकगतिः । श्रितजिनवरचरणा शिवपदशरणा सिद्धरमणसुखमाप्तवती, श्रीराजिमती ॥३॥
१४