________________
भ्रातः किं शोचसि ? त्यज शोकं हृत्समाधिमाधत्स्व ।
ध्रुवमरणं जातस्ये - त्यागमवचनं च संस्मरतात् ॥४५॥ को नाम जगति शक्तो, मृत्युमुखाद् रक्षितुं जनं स्वीयम् ? । श्री तीर्थकृत्समा अपि तं नूनं नाऽतिवर्तन्ते ॥४६॥
पूज्या गुरवस्तु पुनः, संयममाराध्य निर्मलं सुचिरम् । उपदिश्य भव्यलोकान्, निजजननं सार्थकं चक्रुः ॥४७॥ अथ कार्यमेकमेवा-ऽस्माकं न्यायादिशास्त्रमभ्यस्य । प्राप्याऽतुलवैदुष्यं, तत्पट्टोद्भासनं कुर्मः ॥४८॥ इति तद्वचोऽपनीत-स्वगुरुवियोगार्तिराप्य हृत्स्वास्थ्यम् । संयमयोगे नित्यं, नियमितचित्तोऽभवन् मुदितः ॥४९॥ लघुसंयमपर्याये, वयसि लघौ गुरुवरं विना वसनम् । प्राप्तं तदपि न धैर्यं, जहौ स्वभाग्यैक विश्वस्तः ॥ ५० ॥
—0—
१३