SearchBrowseAboutContactDonate
Page Preview
Page 21
Loading...
Download File
Download File
Page Text
________________ १. वैशाख तच्छिष्यदानविजया-स्तर्फे शब्दे च लब्धवैदुष्याः । अतिसाररोगरुग्णाः, समागताः वृद्धिगुरुपार्श्वे ॥३०॥ उचितौषधसेवनतो, वैयावृत्येन साधुवर्गस्य । भक्त्या श्राद्धगणस्य च, ते त्वरितं नीरुजो सञ्जाताः ॥३१॥ श्रीपादलिप्तनगरे, प्रारेभे तदुपदेशतो येका । श्रमणाभ्यासाय शस्या, संस्कृतपाठस्य वरशाला ॥३२॥ तत्र मुनिदानविजया-ग्रहेण गुर्वाज्ञया च मुनिनेमः । समुपागतश्च तेन, वेगवती साऽभवच्छाला ॥३३॥ तत्र हि नानाशास्त्राभ्यासं कुर्वंश्च कारयन् प्रीत्या । कालः कियान् गमित इति, कथमपि न ज्ञातवान् नेमः ॥३४॥ इतश्च भावद्रङ्गे, विराजितः पूज्यवृद्धिचन्द्रगुरुः । आयुः परिहाण्या किल, स्वरलञ्चकार समाधियुतः ॥ ३५ ॥ आकर्ण्य वृत्तमेतद्, दारुणदुःखप्रदं मुनिर्नेमः । किंकर्तव्यविमूढः क्षणमेकं मूर्च्छितो जातः ॥३६॥ ग्रर्हवेदैर्नवविर्धुमिते(१९४९), वर्षे रार्धसितसप्तमीदिवसे । अरिहंत-सिद्ध-साहू- मन्त्रं ध्यायन् गतः स्वर्गम् ॥३७॥ गुरुविरहानलदग्धा, भावनगरवासिनो हि भक्तजनाः । महता यत्नेन मनः- समाधिमासादयन्नूनम् ॥३८॥ निजगुरुवर्यवियोगाद्, यूथच्युतहरिणशाववत् खिन्नः । जलनिर्गतमीन इव, न रतिं कुत्राऽपि लेभे सः ॥३९॥ वदति च रे दुर्दैव ! तवाऽपराद्धं मया हि किं ? येन । इदमतिदुःसहदुःखं, मयि क्षिपन् लज्जसे नैव ॥४०॥ अथ किं कुर्वे ? क्व च वा, गच्छामि ? वदामि कस्य वा पुरतः ? । शरणविहीनस्य हहा ! -ऽऽकस्मिक दुःखौघ आपतितः ॥४१॥ पूज्य गुरो ! इति पदतो, भक्त्या वक्ष्यामि कं मधुरवाचा ? । सम्प्रति वक्ष्यति को मां रे नेमेत्याप्तवचनेन ॥४२॥ कः पाठयिष्यति च मां, सेविष्ये कस्य पादयुगलं वा ? । शिरसि न्यस्य करं स्वं, को दास्यत्याशिषो मेऽन्यः ? ॥ ४३ ॥ इति गुरुविरहार्त्तं तं प्रियवाण्याऽबोधयन्मुनिर्दानः | अन्तःखिन्नोऽपि बाढं, कथमप्यालम्ब्य सद्धैर्यम् ॥४४॥ १२
SR No.521034
Book TitleNandanvan Kalpataru 2015 08 SrNo 34
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2015
Total Pages86
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy