________________
तेनाऽभ्यासे विघ्नः, प्रवर्तमाने ह्युपस्थितः प्रबलः चिन्ताक्लान्तं चित्तं, ततोऽभवन्नेमविजयस्य ॥१५॥ अनभ्यसनखिन्नहृदं, पूज्यश्रीवृद्धिचन्द्रगुरुवर्य्यः । समबोधयन्मधुरया, शिरीषमृद्धया गिरा तमिति ॥ १६ ॥ मा खिद्यस्व मुने ! त्वं, खेदेन हि नाशमेति वरबुद्धिः । झटिति स्वस्थो भूत्वा पुनरपि पाठं विधाताऽसि ॥१७॥ दीर्घज्वरोष्मवशत- स्तन्त्रे मन्दतेजसे जाते । आम्ररसव्यापृत्या, क्रमशः स्फीततेजसेऽभवताम् ॥१८॥ कतिभिर्मुनिभिः सार्द्धं, गुर्वाज्ञातो विहृत्य जैनपुरीम् । अगमत् पंन्यासवर्य्य-प्रतापविजयस्य सान्निध्ये ॥१९॥ हेलोपाश्रयमध्ये, तदा स आसीन्मुनीश्वरैः परितः । राजन्नार्हतधर्म-प्रभावकः श्रुतवयःस्थविरः ॥२०॥ तत्पार्श्वे विधिपूर्वं, योगोद्वहनं विधाय शुभदिवसे । 'वर्य्योत्सवेन जगृहे, पुण्योपस्थापनां स ततः ॥२१॥ अहम्मदावादपुरे, चैत्यावलिराजिते पुरप्रवरे । धर्मादयजनाकीर्णे, कञ्चित्कालं स्थितिं कृतवान् ॥२२॥ श्रीहठीभाई - वाटिकायां श्रीधर्मनाथजिनराजम् । श्रीजगवल्लभपार्थं, मूलेवापार्श्वनाथञ्च ॥२३॥ श्रीचिन्तामणिपार्थं, भाभापाश्च तथा च बीरविभुम् । गांधीमार्गस्थितं च, दर्शं दर्शं मुदं यायात् ॥ २४॥ झरिवाडमध्ये, डोशीवाडाप्रतोलिकामध्ये । रम्या जिनवरमूर्ती-र्दृष्ट्वा न हि को मुदं यायात् ? ॥२५॥ गुणरत्नरोहणगिरीन्, स्वाध्यायतपः क्रियासु संलीनान् । वन्दित्वा च मिलित्वा, पूज्यान् प्रापत् परानन्दम् ॥२६॥ माघञ्च नैषधीयं, काव्यं व्युत्पत्तिसाधकं प्रवरम् । पेठे पण्डितसविधे, कौमुद्याः शेषभागथ ॥२७॥ स्वीयं समाप्य कार्यं, भावद्रङ्गं समागते शिष्ये । हर्षाधिक्याद् गुरवो, व्यतरन् पुण्याशिषः प्रचुराः ॥२८॥ पूज्यगणिमुक्तिविजया, अभवन् प्रौढप्रतापधामानः । ये जिनशासनराज्यं, निपुणतयाऽशासनच्छधियः ॥२९॥
११