________________
इति मत्वा तान् सर्वथा निष्कासयति चित्तम् । ततश्च तन्निर्भारं भवति ।
एवं च विवेकवता चित्तेन ये उपयोगिनः संस्काराः संगृहीतास्ते एव स्मृतिरूपेण स्थिरीभवन्ति । ततश्च कार्यकरणकाले सा स्मृतिः संस्कारोबोधनं कृत्वोपयोगिनी भवति ।
यदा च वयं तान्येव पूर्वं कृतानि कार्याणि - शुभान्यशुभानि वा - तयैव रीत्या पूर्णमनोयोगेन रसपूर्वकं कुर्याम, वारं वारं, तदा तेषां संस्काराः पुनः पुनश्चित्ते संश्लिष्यमाणा गाढा दृढाश्च भवन्ति । ततश्च तदनुसारं जाता स्मृतिरपि गाढा दृढा चैव भवति ।
यदा च तान्येव कार्याणि पूर्वं पूर्णमनोयोगेन कृत्वाऽपि पश्चात् केनचिद् वा निर्वेदादिना कारणेनोपेक्षमाणस्य तेभ्यश्च कार्येभ्यो निवर्तमानस्य तेषां कार्याणां संस्काराः क्षीणा भवन्तः शनैः शनैर्नष्टा अपि भवन्ति । ततश्च स्मृतिरपि विस्मृतित्वेन परावर्तमाना क्षीणा नष्टा च भवन्ति ।
ततश्च स्थितमिदं यत् स्मृतिस्तदैवोत्पद्येत स्थिरा दृढा गाढा च भवेत् यदा नो मनस्तत्तत्कार्येषु सम्यगवाधानवत् स्यात् । यदि तदवधानवन्न भवेत् तदा स्मृतिर्नोत्पद्येत कदाचिदुत्पन्नाऽपि च स्थिरा दृढा गाढा च नैव भवेत् । यद्यस्माकं मनः शुभकार्येषु सावधानं स्यात् तदा ततो जाता स्मृतिरपि शुभैव भवेत्, यदि चाऽशुभकार्येषु सावधानं स्यात् तदा ततो जाता स्मृतिरप्यशुभैव भवेत् ।
____ अद्यत्वे ह्यस्माकं मनः प्रायोऽशुभव्यापारेष्वेवाऽधिकतया संलग्नं भवति, अतोऽशुभस्मृतिभिरेवाऽस्माकं चित्तमाक्रान्तं भवति । शुभस्मृतीनां कृते तत्राऽधिकावकाशो नैव भवति । एतेनाऽशुभव्यापाराणां दुश्चक्रमारब्धं भवति । यथा, अशुभव्यापारैरशुभस्मृतयः, ताभिश्च पुनरशुभव्यापारपूर्णाः प्रवृत्तयः, ततश्च पुनरशुभस्मृतयः । ततश्च शुभकृते तत्र स्थानमेव नैव भवेत् । एतन्नैवोचितम् । अस्माभिविवेकवद्भिर्भाव्यम् । अस्माभिः प्रयत्नपूर्वकं मनोऽशुभव्यापारेभ्यो निरर्थककार्येभ्यश्च निवारणीयं सादरं च शुभकार्येषु योजनीयम् । अत्र प्रारम्भे त्ववश्यं काठिन्यमनुभूयेत, निविण्णताऽपि संभवेत्, किन्तु सर्वमप्येतत् सर्वथाऽविचलिततयाऽवगणय्य सावधानतया शुभव्यापारेषु यो निरतो भवेत् तस्य चित्तं शनैः शनैरशुभसंस्कारान् रिक्तीकृत्य शुभसंस्कारैर्वासितं भवेत्, क्रमशश्च तत् सर्वथा निर्मलीभूय शुद्धः पथि समग्रेसरं भवेत् । एतस्याऽन्येऽपि लाभा बहवो भवन्ति, यथा - अस्माकं स्मृतिशक्तिरुत्तरोत्तरं वर्धमाना भवेत्, तीव्रा तीक्ष्णा च भवेत्, जीवनक्रमोऽपि निर्मलो निराबाधश्च भवेत्, सत्त्वगुणवृद्धिश्च स्यात्, जीवनपर्यन्तं च स्मृतिशक्तिः स्थिरा वर्धमाना च भवेत् ।
___एतद्विपरीततया यद्यशुभव्यापारेष्वेव मनो लग्नं भवेत् तत्रैव च सुखं मोदं चाऽनुभवेत् तदा दुश्चक्रपतितं मनः कुसंस्कारैर्वासितं सत् मलिनं जायमानं तमोगुणेनाऽऽक्रान्तं भवेत् ततश्च तत् संमूढं जायमानं स्मृतिभ्रंशं प्राप्नोति । स्मृतिभ्रंशाच्च सर्वविधा आपदस्तस्य सुलभा एव । अतः सायासं सनिर्बन्धं च मनोऽशुभप्रवृत्तिभ्यो विनिवार्य शुभे नियोजनीयं सर्वथा । एष एव परमसुखप्राप्ते राजमार्गः ॥
(सङ्कलितोऽयं लेखो विविधमूलेभ्यः)
३७