________________
- रहि । आयन्ति - आगच्छन्ति । विद्वांसो यथा तिलतुषतटकोणाधिकरणक-कीटिकाकर्तृकोष्ट्रकर्मकप्रसवेन विश्वसन्ति तथा परसिद्धान्ततत्त्वभाजः शिवपथे नाऽऽरोहन्तीति भावः । तथा चाऽऽहुरभियुक्ताः -
- परः सहस्रा: शरदस्तपांसि, युगान्तरं योगमुपासतां वा । तथाऽपि ते मार्गमनापतन्तो न मोक्षमाणा अपि यान्ति मोक्षम् ॥ इति ॥१८॥
यदृजुहतमतिस्थैरुक्तमन्यैरयुक्तं तदरमितरथाऽत्राऽकारि शिष्यप्रशिष्यैः । वचसि हतिरियन्तेऽभून सूरेरिवाऽस्मि
स्तिलतुषतटकोणे कीटिकोष्ट्रं प्रसूता ॥१९॥ (अवयः) ऋजुहतमतिस्थैः, अन्यैः, अत्र, यत् अयुक्तम्, उक्तम्, शिष्यप्रशिष्यैः तत्, अरम् इतरथा, अकारि, सूरेः, ते, अस्मिन्, वचसि, इयम्, हति, न, तिलपुषतटकोणे, कीटिका, उष्ट्रम्, प्रसूता,
' (वृत्तिः) ऋजुहतमतिस्थैः - ऋजुः कोमला हता नष्टा या मतिर्बुद्धिस्तत्र तिष्ठन्तीति ऋजुहतपतिस्थास्तैस्तथा, सुकोमलविनष्टबुद्धिभिरित्यर्थः । अन्यैः - परदर्शनिभिः अत्र मोक्षतत्त्वविचारणायाम् । यत् - बुद्धिविषयीभूतं किमपि अयुक्तम् - असम्बद्धार्थत्वादनुचितमित्यर्थः । उक्तं - प्रतिपादितम् । शिष्यप्रशिष्यैः - तदीयान्तेवासिपरम्परायातैः । तत् - तदुक्तम् । अरं शीघ्रं यथा स्यात्तथा । इतरथा - अन्यथा, विपरीतप्रकारेणेति यावत् ।। अकारि - कृतम् । यत्तात्पर्येण गुरुणा किमप्युक्तं तदन्यपरतया तदीयशिष्यप्रशिष्यैर्व्याख्यातमिति यावत् । सूरेः - विदुषः । ते - तव । अस्मिन् – देशनागमाद्यात्मके वचसि - वचने । इयम् - एषा । हतिः - गुरूक्तान्यथाकरणात्मकहानिः । न नहि । अत्रोत्प्रेक्षते - तिलतुषेत्यादि - तिलतुषतटकोणे कीटिकोष्ट्र प्रसूतेव - सम्भावये कीटिका तिलतुषतटकोणे उष्टं प्रसूता ।
तदुक्तमाचार्य्यवरैः
यदार्जवादुक्तमयुक्तमन्यैस्तदन्यथाकारमकारि शिष्यैः । नो विप्लवोऽयं तव शासनेऽभूदहो अधृष्या तव शासनश्रीः ॥ इति ॥१९॥ भविकततिमयन्ती कार्मणानन्तकाणु - स्थितिभृतिमति सौवत्वेऽपि कैवल्यसूचिम् । वदति तव सुसूक्ष्मध्यानजां प्रेक्ष्य कश्चित् ।
तिलतुषतटकोणे कीटिकोष्टुं प्रसूता ॥२०॥ (अन्वयः) कार्मणानन्तकाणुस्थितिभृतिमति, अपि, सौवत्वे, तव, सुसूक्ष्मध्यानजां, कैवल्यसूचिम्, अयन्ती, भविकतति, प्रेक्ष्य, कश्चित्, "तिलतुषतटकोणेकीटिकोष्ट्र प्रसूता'' इति । वदति ॥२०॥
२७