________________
चाऽभियुक्तोक्ताः -
"अपक्षपातेन परीक्षमाणा द्वयं द्वयस्याऽप्रतिमं प्रतीमः । यथास्थितार्थप्रथनं तवैतदस्थान-निर्बन्धरसं परेषामिति ॥१६||
तव मतिविपरीताः क्लुप्तहिंसादिदोषा जिन ! परसमयास्तेऽसर्वविन्मूलतोत्थाः । यदि परगरिमाणः किं तदेतन्नु मिथ्या
तिलतुषतटकोणे कीटिकोष्टुं प्रसूता ॥१७॥ (अन्वयः) जिन ! तव, मतिविपरीताः, क्लृप्तहिंसादिदोषाः, असर्वविन्मूलतोत्थाः, ते परसमयाः, यदि, परगरिमाणः, तदा - तिलतुषतटकोणे, कीटिका, उष्ट्र, प्रसूता, एतत् - मिथ्या, किम्, नु? ॥१७॥१॥
(वृत्तिः) जिन ! अर्हन् ! तव - भवतः । मतिविपरीताः बुद्धिप्रतिकूलाः, शासनप्रतीपा इति यावत् क्लृप्तहिंसादिदोषाः - हिंसाप्रमुखदूषणदूषिताः । असर्वविन्मूलतोत्थाः - असर्वज्ञमूलत्वेनसमुत्थिताः, असर्वज्ञप्ररूपिता इति यावत् । ते - प्रसिद्धाः । परसमयाः - परकीयसिद्धान्ताः । “समयः शपथे भाषासम्पदोः कालसंविदोः । सिद्धान्ताचारसङ्केतनियमासहेषु च" इत्यनेकार्थः । यदि - चेत् । परगरिमाणः - अत्यन्तगौरवान्विताः । "परगुरुमान्याः" इति वा पाठः कल्प्यः, परैः - अन्यैर्गुरुभिर्धर्मोपदेशकैः मान्याः - स्वीकार्याः । परगिरि मान्या... इति मुद्रितपाठस्वीकारे च - परकीयशास्त्रात्मकवचने समादरणीयाः इत्येवं व्याख्येयं तदा "तिलतुषतटकोणे कीटिकोष्टं प्रसूता" एतत् - मिथ्या - असत्यम् । किम् - कथम् ? नु - वितर्के ॥१७॥
परसमयरतस्था लक्षशः कोटिशो वा - जिनप ! जपतपो वोपासतां योगमार्गम् । तदपि शिवपथे नाऽऽयान्त्यदोऽर्थे यथा ज्ञा
स्तिलतुषतटकोणे कीटिकोष्टुं प्रसूता ॥१९॥ (अन्वयः) जिनप ! परसमयरतस्थाः, लक्षशः, कोटिशः, वा, जपतपः, योगमार्ग वा, उपासतां, तदपि, तिलतुषतटकोणे, कीटिका, उष्ट्र, प्रसूता, अदोऽर्थे, ज्ञाः, यथा, शिवपथे न, आयान्ति ।
(वृत्तिः) जिनप ! भगवन् जिनेश्वर ! यद्यपि परसमयरतस्थाः - परकीयसिद्धान्ततत्त्वानुरागवन्तः । 'लक्षशः - लक्षसंख्याकाः । कोटिशः - कोटिसंख्याभाजः । वा - समुच्चये, जपतपः - जपो जापश्च तपस्तपस्या - चेत्यनयोः समाहारस्तथा । योगमार्ग - चित्तवृत्तिनिरोधादिपद्धतिम् । वा - विकल्पे । "वा समुच्चय एवार्थ उपमानविकल्पयोः । वितर्के पादपूर्ती च विश्रम्भातीतयोरपि" इति हैमानेकार्थः । उपासनाम् - उपासनाविषयीकुर्वन्तु । समाश्रयन्तामिति यावत् । तदपि - तथापि । “तिलतुषतटकोणे कीटिकोष्टं प्रसूता" अदोऽर्थे इत्यस्मिन् विषये । ज्ञाः - मनीषिणः । यथा - इव । शिवपथे - मोक्षमार्गे।
२६