SearchBrowseAboutContactDonate
Page Preview
Page 34
Loading...
Download File
Download File
Page Text
________________ विमोचनात् । के के, जना इति शेषः । न - नहि । सिद्धाः सिद्धिङ्गताः अपि तु सर्व एव प्राप्तभवत्समवसरणाः सिद्धा एवेति भावः । च - पुनः । अत्र - समवसरणभुवि । “तिलतुषतटकोणे कीटिका उष्टं प्रसूता" एवं - तादृशकोणाधिकरणककीटिकाकर्तृकोष्ट्रकर्मकप्रसवम् । ऐक्ष्य - अवलोक्य, ज्ञात्वेति यावत् । भवतति - संसारपरम्परां । न - नहि । ईयुः - जग्मुः । इति - तदीयभवपरम्परानधिगमनम् । चित्रम् - आश्चर्यम् ॥१४॥ जिनप ! तव वचः स्यात्पङ्क्तिकास्थास्थितानां भवति शिवरमायाः शंनिधेः किं न हिंसाम् । प्रतिकृतिविहितान्त्या भाविनी निर्जिताह - . स्तिलतुषतटकोणे कीटिकोष्टुं प्रसूता ॥१५॥ (अन्वयः) जिनप ! स्यात्पङ्क्तिकास्थास्थितानाम्, तव, वचः, शंनिधेः, शिवरमाया भवति, निर्जितांहः ! प्रतिकृति विहितान्त्या, तिलतुषतटकोणे, उष्ट्र, कीटिका (इव) भाविनीम्, हिंसाम् न प्रसूता किम् ? ॥१५॥ (वृत्तिः) जिनप! जिनानर्हतः पाति रक्षतीति जिनपस्तदामन्त्रणे तथा । स्यात्पङ्क्तिकास्थास्थितानाम् - स्यात्पदलाञ्छितवाक्यश्रद्धाशालिनाम् । जनानामिति शेषः । तव - श्रीमतो भवतः । वचः - देशनावचनम् । शंनिधेः - कल्याणनिधानस्य । शिवरमायाः - मोक्षलक्ष्म्याः कृते इति शेषः, भवति - जायते । निजितांहः ! निष्पाप ! प्रतिकृतिविहितान्त्या - प्रतिमोद्देश्यकसुरचिता पूजा । तिलतुषतटकोणे उष्ट्र, कीटिका (इव) भाविनीं भावमयीम् । हिंसां हननादिक्रियाम् । न - नहि । प्रसूता - प्रासूयत । किम् ? अपि तु तथैव प्रसूतेति भावः ॥१५॥ द्वयमनुपममेतत् संप्रतीमो द्वयस्या - ऽभयद ! वरपरीक्षाप्रेक्षकाः सत्यवाक्त्वम् । त्वयि वितथपथेनार्थादरोऽन्येष्विदंवत् तिलतुषतटकोणे कीटिकोष्ट्रं प्रसूता ॥१६॥ (अन्वयः) अभयद ! वरपरीक्षाप्रेक्षकाः, (वयम्) द्वयस्य, एतत्, द्वयम्, अनुपमम् । संप्रतीमः, त्वयि, सत्यवाक्त्वम्, अन्येषु "तिलतुषतटकोणे, कीटिका, उष्ट्र, प्रसूता" इदंवत्, वितथपथेन, अर्थादरः ॥१६॥ ... (वृत्तिः) अभयद ! भगवन् सर्वज्ञ ! वरपरीक्षाप्रेक्षकाः - समीचीनतया परीक्षणपूर्वकं प्रेक्षणशीलाः । वयमिति शेषः । द्वयस्य तव, अन्यदर्शनिनश्च । एतत् - इदम् । द्वयं - द्वितयम् । अनुपमम् - अप्रतिमम् । संप्रतीमः - सम्यगवगच्छामः । त्वयि - श्रीमति भवति जिनेश्वरे । सत्यवाक्त्वम् । अवितथवचनत्वम् । अन्येषु - इतरेषु - अपरदर्शनिष्विति यावत् । “तिलतुषतटकोणे कीटिकोष्ट्रं प्रसूता" इंदवत् इदमिव । वितथपथेन - अनृतपद्धत्या, कुमार्गेणेति यावत् । अर्थादरः - विषयग्राहित्वं तथा २५
SR No.521034
Book TitleNandanvan Kalpataru 2015 08 SrNo 34
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2015
Total Pages86
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy