SearchBrowseAboutContactDonate
Page Preview
Page 33
Loading...
Download File
Download File
Page Text
________________ (वृत्तिः) इन ! आदीशप्रभो ! ते - श्रीमतो भवतः । समवसरणभित्तौ - समवसृतिप्राकारकुड्ये, लेखा - देवाः । मुदा - हर्षेण । यानि - बुद्धिविषयीभूतानि । चित्राणि - आलेख्यानि । लिलिखुः - चित्रयामासुः । तानि - बुद्धिविषयीभूतानि चित्राणि । विस्मितम्, साश्चर्यं यथा स्यात्तथा । अवेक्ष्य - प-लोच्य । बहुभिः - अनेकैः, भाविकजनैरिति शेषः । अमृतता - मरणाभावः, महानन्दता, मुक्तिरिति यावत् । अवापि - अध्यगामि, अलम्भीति यावत् । एवं सतीति शेषः । "तिलतुषतटकोणे कोटिकोष्टं प्रसूता" अत्र - एतत्प्रकारणे विषये, ते श्रीमतो, भवतः । कृते इति शेषः । अतिचित्रम् आश्चर्यातिशयितम् । किम् ? किमपि नेतिभावः ॥१२॥ जिनवृषभ ! यथाऽन्ये तीर्थिका लीलयाऽहुः शिवपदमिह तद्वत् त्वं न तेऽज्ञापथस्थाः । तदपि परमतं यत् म्लिष्टितार्थं यथेदं, तिलतुषतटकोणे कीटिकोष्टुं प्रसूता ॥१३॥ (अन्वयः) जिनवृषभ ! इह, अज्ञापथस्थाः, ते, अन्ये, तीथिकाः, यथा, लीलया, शिवपदम्, आहुः, तद्वत्, त्वम्, न, तिलतुषतटकोणे कीटिका, उष्ट्र, प्रसूता, इदं यथा - यत् परमतम्, तत् म्लिष्टितार्थम् ॥१३॥ (वृत्तिः) जिनवृषभ ! जिनेश्वर ! इह - मोक्षतत्त्वविचारणायाम् । अज्ञापथस्थाः, न जानन्ति वस्तुतत्त्वमिति - अज्ञाः, अपथे - असमीचीनमार्गे तिष्ठन्तीति अपथस्थाः, अज्ञाश्च ते अपथस्था अज्ञापथस्थाः । ते - प्रसिद्धाः । अन्ये - अपरे । तीथिकाः - मोक्षतत्त्वव्यवस्थापका धर्माचार्याः । यथा - येन प्रकारेण । लीलया - दुश्चरतपश्चरणादिनाऽपि । अनायासेनैवेति यावत् ! शिवपदम् - शिवो मोक्ष एव पदमास्पदं, शिवपदं, आहुः - कथयन्ति । तद्वत् - तेन प्रकारेण । त्वम् - श्रीमान् - भवान् । न - नहि । आत्थेति शेषः । “तिलतुषतटकोणे कीटिकोष्ट्र प्रसूता" इदं यथा - इदमिव । यत् - बुद्धिविषयीभूतम् । परमतं - परकीयसिद्धान्ततत्त्वम् । तत् - म्लिष्टितार्थम् । असङ्गतत्त्वादस्फुटाभिधेयम्, अवगन्तव्यमिति शेष: ॥१३॥ समवसृतिभुवं ते प्राप्य के के न सिद्धाः सकलकलुषमुक्तेरक्षयक्षायिकाप्तेः । । न भवततिमितीयश्चित्रमौक्ष्य चैवं तिलतुषतटकोणे कीटिकोष्टुं प्रसूता ॥१४॥ (अन्वयः) ते - समवसृतिभुवं, प्राप्य, अक्षयक्षायिकाप्तेः, सकलकलुषमुक्तेः, के के, न सिद्धाः, च, अत्र, तिलतुषतटकोणे, कीटिका, उष्ट्र, प्रसूता, एवम्, ऐक्ष्य भवतति, न, ईयुः, इति, चित्रम् ॥१४॥ (वृत्तिः) ते - तव, श्रीमदादीशस्येति यावत् । समवसृतिभुवं - समवसरणस्थानम् प्राप्य - समधिगत्य । अक्षयक्षायिकाप्तेः - अविनश्वरक्षायिकभावाधिगमात् । सकलकलुषमुक्तेः - अखिलपाप २४
SR No.521034
Book TitleNandanvan Kalpataru 2015 08 SrNo 34
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2015
Total Pages86
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy