SearchBrowseAboutContactDonate
Page Preview
Page 32
Loading...
Download File
Download File
Page Text
________________ (वृत्तिः) अभयद ! सर्वविधभीतिव्रातनिवारक तीर्थकृत् ! भवदीयाचिन्त्यमाहात्म्यतः भावत्कानि-र्वचनीयमहिमभावतः । चेत् - यदि । रङ्कः - दरिद्रः, अकिञ्चन इति यावत् । क्षितिपतिभुवि - नृपोचितस्थाने । प्रेक्ष्यते - चाक्षुषविषयीक्रियते, अवलोक्यते इति यावत् । अन्धः - दृष्टिविरहितः । च - पुनः । पङ्गः - पायाति शुष्यति पादवैकल्यादिति पङ्गः "प्रीकैपैत्रीलेः (उणा. ७६१) इत्यङ्गक् चरणहीन इत्यर्थः । जगत् - भुवनम् - तदभिव्याप्येत्यर्थः । अतति - सातव्यकरम्बितगमनवान् भवति । तदा - तर्हि । असम्भवि - सम्भवरहितम्, अयोग्यमिति यावत् । "तिलतुषतटकोणे कीटिकोष्ट्रं प्रसूता" इदम् - एतत् । न - नहि । भवेत् - संभवेत् । किम् ? अपि तु भवेदेवेति भावः ॥१०॥ सभविक ! भविकाली सेवते ते वचो याऽनृणगुणमपि धत्ते स्वोरसीष्टे क्रियासु ॥ अणुलघुपदसृष्ट्यां सा कथं क्वाऽपि नीचै स्तिलतुषतटकोणे कीटिकोष्टुं प्रसूता ॥११॥ (अन्वयः) सभविक ! या - भविकाली, ते, वचः, सेवते, अनृणगुणम्, अपि, स्वोरसि, धत्ते, क्रियासु, ईष्टे, सा, अणुलघुपदसृष्ट्याम्, क्वाऽपि, नीचैः, कीटिका, तिलतुषतटकोणे उष्ट्रम्, (इव) कथम्, प्रसूता, (स्यात्) ॥११॥ (वृत्तिः) सभविक ! भव्यात्मजनसंसेवित ! महानन्दात्मकक्षेमशालिन् ! इति वा । या - बुद्धिविषयीभूता । भविकाली - भव्यात्मजनश्रेणी । ते - श्रीमतो भवतः । वचः - वचनम् । सेवते - श्रयति । अनृणगुणम्, नास्ति ऋणं पैतृकादि यस्मात् सोऽनृणः, अनृणत्वसम्पादक इति तदर्थः, तादृशः, गुणः सम्यक्त्वादिरनृणगुणस्तं तथा । वस्तुतस्तु "अनणुगुणम्" इत्येवसमुचितः पाठः, अनल्पगुणमिति तदर्थः । स्वोरसि - निजवक्षसि - लक्षणया हृदये इत्यर्थः । धत्ते - धारयति । क्रियासु - साङ्गागमाध्ययनापनोपवासादिकर्मसु । ईष्टे - समर्थो भवति । सा - बुद्धिविषयीभूता भविकाली । अणुलघुपदसृष्ट्याम् । अण्ड - क्षुद्रम् (अत एव) लघु - लघुतावहं यत् पदम्, आस्पदम् तस्य सृष्टिः सर्गस्तत्र तथा । क्वाऽपि - कुत्रचित् । नीचैः - अधःपदे । कीटिकाः तिलतुषतटकोणे उष्ट्रम् (इव) कथम् - केनं - प्रकारेण प्रसूता, स्यादिति शेषः अपि तु नैव प्रसूता भवेदिति भावः ॥११॥ समवसरणभित्तौ यानि चित्राणि लेखा लिलिखुरिन ! मुदा ते विस्मितं तान्यवेक्ष्य । बहुभिरमृतताऽवाप्यत्र किं तेऽपि चित्रं तिलतुषतटकोणे कीटिकोष्ट्रं प्रसूता ॥१२॥ (अन्वयः) इन ! ते, समवसरणभित्तौ, लेखाः, मुदा, यानि, चित्राणि, लिलिखुः, तानि, विस्मितम्, अवेक्ष्य, बहुभिः, अमृतता, अवापि, तिलतुषतटकोणे, कीटिका, उष्ट्रम्, प्रसूता अत्र ते, अतिचित्रम्, किम् ? ॥१२॥ २३
SR No.521034
Book TitleNandanvan Kalpataru 2015 08 SrNo 34
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2015
Total Pages86
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy