________________
(अन्वयः) जिन ! तव कुलजातस्य, स्वपितृनतिनुतस्य, अपि, मरीचेः, अशस्तभावाणुभूती, बुद्धौ, कुलविषयमहाप्तिम्, वीक्ष्य, कः, तिलतुषतटकोणे, कीटिका, उष्ट्रम्, प्रसूता, इति, न, आह, किम् ?
(वृत्तिः) जिन ! भगवन्नादीश्वर ! तव - श्रीमतो भवतः । कुलजातस्य - वंशोत्पन्नस्य । स्वपितृनतिनुतस्य भवता, भाविप्रथमवासुदेव-चक्रवर्ति-चरमतीर्थकृत्त्वाधिगमनिरूपणोत्तरं स्वपित्रा प्रथमचक्रवर्तिना भरतेन नमस्कारपूर्वकमभिष्टुतस्य । अपि - खलु मरीचेः - तदभिधानचरमतीर्थकृज्जीवस्य । अशस्तभावाणुभूतौ, अशस्तभावैः - अभिभानपूर्वकानुध्यानैरणुः लघ्वीभूतिरैश्वर्यं यस्यां सा - अशस्तभावाणुभूतिस्तस्यान्तथा। "अशस्तभावानुभूतौ" इति पाठे, अशस्तभावविषयकानुभवात्मिकायामित्यर्थोऽवसेयः । बुद्धौ - संविति । कुलविषयमहाप्तिम् - समीचीनकुलविषयकातिशयप्राप्तिम् । वीक्ष्य - विविच्य । कः - पुरुषः । "तिलतुषतटकोणे कीटिकोष्ट्रं प्रसूता" इति - एवम् । न - नहि । आह - ब्रवीति ? अपि तु सर्वोऽप्याहैवेति भावः ॥९॥
तिलतुषसमवंशेऽनार्य्यभूमौ क्वचित्स्थाँस्तव जिन ! पृथुधर्माज्ञादरानेक्ष्य साक्षात् । अदनज-सुलसादीन् केन नाऽवाद्यथैवं
तिलतुषतटकोणे कीटिकोष्टुं प्रसूता ॥९॥ (अन्वयः) जिन ! तिलतुषसमवंशे, अनार्य्यभूमौ, क्वचित्स्थान्, तव, पृथुधर्माज्ञादरान् अदनजसुलसादीन्, साक्षात्, एक्ष्य, केन, अथ, तिलतुषतटकोणे कीटिका, उष्ट्रम्, प्रसूता, एवम् न, अवादि ॥९॥
(वृत्तिः) जिन ! भगवन्नर्हन् ! तिलतुषसमवंशे तुच्छतया तिल-कडङ्करतुल्यकुले । अनार्य्यभूमौ - अनार्य्यवसतियोग्यक्षेत्रे । क्वचित्स्थान् - कुत्रचित्स्थितान् । तव - श्रीमतो भवंतः । पृथुधर्माज्ञादरान् - विशालधर्मादेशसंश्रद्धान् । अदनजसुलसादीन् - अदनः - अधुनैडनतया प्रसिद्धो देशः तज्जराजकुमार-सुलसकुमारप्रभृतीन् । साक्षात् - प्रत्यक्षम् । एक्ष्य - सर्वतोभावेनाऽवलोक्य । केन - किमात्मकेन, कीदृशेनेति यावत्, जनेनेति शेषः । अथ - विनिश्चयेन । “अथाऽथो संशये स्यातामधिकारे विनिश्चये" इति मेदिनी । तिलतुषतटकोणे, कीटिका, उष्ट्रम्, प्रसूता, एवम् - अनेन प्रकारेण । न - नहि अवादि - उक्तम् ? अपि तु सर्वेणाऽपि जनेन तथोक्तमिति भावः ॥९॥
अभयद ! भवदीयाचिन्त्यमाहात्म्यतश्चेत् क्षितिपतिभुवि रङ्कः प्रेक्ष्यतेऽन्धश्च पङ्गः । जगदतति तदा नाऽसम्भवीदं भवेत् किं
तिलतुषतटकोणे कीटिकोष्टुं प्रसूता ॥१०॥ (अन्वयः) अभयद ! भवदीयाचिन्त्यमाहात्म्यतः, चेत्, रङ्कः, क्षितिपतिभुवि, प्रेक्ष्यते, अन्धः, च, पङ्गः, जगत्, अतति, तदा, असंभवि, तिलतुषतटकोणे, कीटिका, उष्ट्रम् प्रसूता, इदमसम्भवि, न, भवेत्, किम् ? ॥१०॥