________________
शब्दसन्दर्भम् । आह ब्रवीति । परसमयपदार्थ- तादृशप्रसवयोरसम्भवत्वेन तुल्यत्वात्, एतेन
परसमयपदार्थानामप्रामाण्यं व्यज्यते इति निदर्शनोपस्कृतमुत्तमं काव्यमवसेयम् ॥५॥
-
समवसृतिमगुस्ते सार्व ! देवा विधाय त्रिजगदभवि नाट्यं चित्रकृद्भक्तियुक्तेः । मरुदथ गुरुचेताः कश्चिदित्यास्त नृत्यन् तिलतुषतटकोणे कीटिकोष्ट्रं प्रसूता ॥६॥
T
-
(अन्वयः) हे सार्व! देवाः, भक्तियुक्तेः, त्रिजगदभवि, चित्रकृत्, नाट्यम्, विधाय, ते समवसृतिम्, अगुः, अथ, गुरुचेताः, कश्चित् मरुत्, तिलतुषतटकोणे कीटिका, उष्ट्रम्, प्रसूता, इति, नृत्यन्, आस्त ॥ (वृत्ति:) हे सार्व ! हे सर्वज्ञ ! देवा: अमराः । भक्तियुक्तेः - सेवायोगात् । त्रिजगदभवि - भुवनत्रयासम्भवि । (अत एव ) चित्रकृत् आश्चर्यकारि । नाट्यम् - नृत्यम् । विधाय कृत्वा । ते भवतः । समवसृतिम् - समवसरणम् । अगुः - इण्धातोरद्यतन्यामनि पुसादेशे "इणिकोर्गा' ४/४/२३ इति - इणो गादेशे " पिबैति०" ४ / ३ / ६६ इति सिज्लुपि "अगुः" इति रूपं निष्पद्यते, अगमन्निति तदर्थः । अथ - अनन्तरम् । गुरुचेताः – गौरवान्वितमनाः । कश्चित् अनिर्दिष्टनामा । मरुत् - देवविशेषः । “तिलतुषतटकोणे, कीटिका, उष्ट्रम्, प्रसूता" इति अनेन प्रकारेण । नृत्यन् - नृत्यं कुर्वन् । आस्त - आसीत् ॥६॥
प्रथमंजिन ! तवाऽऽज्ञा भव्यभव्याऽऽत्मनां स्व:सुखलवममृतत्वं · साधिनां साधु दत्ते । तदुचितमवन त्वन्नाऽऽप गाः किं गतांह - स्तिलतुषतटकोणे कीटिकोष्ट्रं प्रसूता ॥७॥
(अन्वयः) प्रथमज़िन ! भव्यभव्या, तव, आज्ञा, साधिनाम्, आत्मनाम्, स्वःसुखलवम्, अमृतत्वम्, साधु, दत्ते, अवन ! गतांहः ! त्वम्, “तिलतुषतटकोणे कीटिका उष्ट्रं प्रसूता" इति, गाः, न, आप, किम् ।
(वृत्ति:) प्रथमजिन ! आदीश्वर ! भव्यभव्या अत्यन्तभविका निरतिशयक्षेमकारिणीति यावत् तव श्रीमतो भवतः । आज्ञा - आदेशः, साधिनाम् - साधनमाराधनमेव साधः, सोऽस्त्येषामिति साधिनस्तेषान्तथा । आत्मनाम् - जीवात्मनाम् । स्वःसुखलवम् - स्वःसुखं स्वर्गीयं शर्म लवं तुच्छं यस्मात्तथा, अमृतत्वम् – महानन्दम् । साधु सम्यक् । दत्ते - ददाति । सम्बन्धे षष्ठी । अवन ! शरण ! गतांहः ! – निष्पाप ! त्वम् - भवान् । तिलतुषतटकोणे कीटिका उष्ट्रम्, प्रसूता । इति – इत्थम्भूताः ।
-
-
गा: - वचनानि । न नहि । आप - प्राप । किम् ? अपि तु प्रापैवेति भावः ।
-
तव जिन ! कुलजातस्याऽपि बुद्धौ मरीचेः स्वपितृनतिनुतस्याऽशस्तभावाणुभूतौ । कुलविषयमहाप्तिं वीक्ष्य नाऽऽहेति कः किं तिलतुषतटकोणे कीटिकोष्ट्रं प्रसूता ॥८॥
२१