SearchBrowseAboutContactDonate
Page Preview
Page 29
Loading...
Download File
Download File
Page Text
________________ यद्वा मतौ (मतिविषयः मतिरिहेच्छा तथा चेच्छाविषयीभूता, समभिलषितेति यावत्) रतिर्यस्मात्तत्तथा । किम् - निषेधार्थकमव्ययम् 'किं कुत्सायां वितर्के च निषेधप्रश्नयोरपि' इति मेदिनी, तथा च मतिरति नास्तीत्यर्थः ॥३॥ जिनवर! भवदीया योजनासारसाराऽमृतमयगुणखानिः शङ्करी गीर्जनानाम् । क्वपिदपि हि कदा किं दोषपोषं यथैषा तिलतुषतटकोणे कीटिकोष्टुं प्रसूता ॥४॥ (अन्वयः) जिनवर ! कीटिका, तिलतुषतटकोणे, उष्ट्रम्, यथा, योजनासारसारामृतमयगुणखानि:, शङ्करी भवदीया, एषा, गी:, जनानाम्, क्वचित्, कदापि, हि, दोषपोषम्, प्रसूता, किम् ? || (वृत्तिः) जिनवर ! जिनेश्वर ! कीटिका - पिपीलिका । तिलतुषतटकोणे, उष्ट्रम्, यथा इव, योजनासारसारामृतमयगुणखानि: - योजने - क्रोशचतुष्टये आसारः - धारासम्पातः, परस्परापात इति यावत्, यस्याः सा योजनासारा, सारामृतमयाः - समुत्कृष्टपीयूषस्वभावा ये गुणाः प्रसादाद्यास्तेषां खानिराकरः सारामृतमयगुणखानिः, योजनासारा. चाऽसौ सारामृतमयगुणखानिस्तथा । शङ्करी - कल्याणकारिणी । भवदीया - भवत्सम्बन्धिनी । एषा - इयम् । गी: - देशनावाक् । जनानाम् - लोकानाम् क्वचित् - कुत्रचित् । कदाऽपि - जातुचिदपि । हि - निश्चयेन । दोषपोषम् - दूषणपोषम्, प्रसूता - प्रासूयत । किम् सम्भावनायां प्रश्नार्थे वा, कीटिका यथा तिलतुषतटकोणे क्रमेलकं जनयितुं न क्षमा तथा भवदीया वागपि दोषपोषमुत्पादयितुमसमर्थेति भावः ॥४॥ तिलतुषवदसारान् सङ्कलान् क्वाऽपि संस्थाँस्तव जिन ! वचनाब्धिप्रोत्थबिन्दूद्भवाभान् । परसमयपथस्थान् प्रेक्ष्य नाऽऽहेति कश्चित् तिलतुषतटकोणे कीटिकोष्टुं प्रसूता ॥५॥ (अन्वयः) जिन ! तव, वचनाब्धिप्रोत्थबिन्दूद्भवाभान्, तिलतुषवंदसारान्, क्वाऽपि संस्थान् सङ्कलान्, परसमयपथस्थान्, प्रेक्ष्य कश्चिद् ना, "तिलतुषतटकोणे कीटिका, उष्ट्रं प्रसूता" इति भाषते किम् ? ॥५॥ (वृत्तिः) जिन ! तव - जिनेश्वरस्य । वचनाब्धिप्रोत्थबिन्दूद्भवाभान्, वचनम् - देशनात्मकं वच एवाऽब्धिः समुद्रो वचनाब्धिस्तस्मात् प्रोत्थाः - प्रकर्षेणोत्थिता ये बिन्दवः - पृषतास्तदुद्भवाभान् तदुत्पन्नामिव । तिलतुषवदसारान् तिलकडङ्करतुल्यतुच्छान् । क्वाऽपि - क्वचित् । संस्थान् - स्थितान् । सङ्कलान् - अस्पष्टवचनान् । परसमयपथस्थान् - अन्यदीयसिद्धान्तमार्गस्थितान् पदार्थानिति शेषः । अत्र "परसमयपदार्थान्" इति पाठः समीचीनः प्रतिभाति अध्याहारानपेक्षणात् । प्रेक्ष्य - समवलोक्य, विविच्येति यावत् । कश्चित् ना - कोऽपि मनुजः "तिलतुषतटकोणे कोटिकोष्टं प्रसूता'' इति अमुं २०
SR No.521034
Book TitleNandanvan Kalpataru 2015 08 SrNo 34
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2015
Total Pages86
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy