________________
प्रकाशोक्तेः । मालिनीवृत्तम् । “ननमयययुतेयं मालिनीभोगिलोकैः" इति वृत्तरत्नाकरीयतल्लक्षणतः ॥१॥
तिलतुषितकुलस्था दुर्विधा स्वाङ्गजाशाभृदभयद ! तनूजं भक्तितस्ते श्रियोच्चम् । यदलभत हि काचित् स्त्रीत्यथाख्या किमासीत्,
तिलतुषतटकोणे कीटिकोष्ट्रं प्रसूता ॥२॥ . . (अन्वयः) अभयद ! तिलतुषितकुलस्था, दुविधा - स्वाङ्गजाशाभृत्, अथाख्या काचित् स्त्री, ते, भक्तितः, श्रिया, उच्चम्, तनूजम्, हि, यत्, अलभत, इति, कीटिका, तिलतुषतटकोणे, उष्ट्रम्, प्रसूता, आसीत् किम् ?
(वृत्तिः) अभयद - बाह्याभ्यन्तरप्रतिपक्षापादानकभयविनाशक! अर्हन् ! "अर्हन् जिनः पारगतः.... स्याद्वाद्यभयदसार्वाः" १/२४ इत्यभिधानचिन्तामणिः । तिलतुषितकुलस्था - तुच्छतया तिलतुषानुकारिवंशस्थिता । दुविधा - दारिशकरम्बिता दीना । स्वाङ्गजाशाभृत् - निजापत्यकामनाञ्चिता । अथाख्या अथाभिधाना, उषाख्येति पाठे - उषाभिधाना वा, अन्यप्रकारा वा.... । काचित् स्त्री - योषा । ते - भवत आदीश्वरस्य । भक्तितः - सेवातः । श्रिया - तन्त्रवशात् शोभया सम्पत्त्या, लक्ष्म्या च । "शोभासम्पत्तिपद्मासु लक्ष्मीः श्रीरिव कथ्यते' इति शाश्वतः । उच्चम् - उन्नतम्, समुन्नतश्रीकमितिपदद्वयस्याऽर्थः । तनूजम् - आत्मजम् । हि - निश्चयेऽव्ययम् । यत्, अलभत - प्राप्नोत् । इति तत् । कीटिका, तिलतुषतटकोणे, उष्ट्रम्, प्रसूता, आसीत्, किम् ? अत्राऽलङ्कारः पूर्ववन्निदर्शना ॥२॥
ऋषभजिन ! वचस्ते वस्तुसम्यक्प्रतिष्ठं, विशदिह भविकानां तन्वतां सौवचित्ते । मतिरति कुमतं किं क्लिष्टमेतद्वचोवत्
तिलतुषतटकोणे कीटिकोष्टं प्रसूते ॥३॥ . (अन्वयः) ऋषभजिन ! इह, सम्यक्प्रतिष्ठम्, वस्तु, ते, वचः, तन्वताम्, भविकानाम्, सौवचित्ते, विशत्, "तिलतुषतटकोणे कीटिकोष्ट्रं प्रसूता" एतद्वचोवत्, क्लिष्टम्, कुमतम्, मतिरति, किम् ॥३॥ - (वृत्तिः) ऋषभजिन ! ऋषति गच्छति परमं पदमिति "ऋषिवृषिलुसिभ्यः कित्' (उणा० ३३१) इत्यभे ऋषभः, यद्वा - ऊर्वोवृषभलाञ्छनमभूद्भगवतो जनन्या च चतुर्दशानां स्वप्नानामादावृषभो दृष्टस्तेन ऋषभः, जयति रागद्वेषमोहानिति जिनोऽर्हन्, ऋषभश्चाऽसौ जिन ऋषभजिनस्तदामन्त्रणे तथा । इह - अस्मिल्लोके। सम्यक्प्रतिष्ठम् - समीचीनप्रतिष्ठाशालि । वस्तु - वस्तुभूतम्, वा, स्तवमित्यर्थः । तें - भवतः । वचः - देशनात्मकवचनम् । तन्वताम् - विस्तारयताम् । भविकानाम् - भावुकनृणाम् । सौवचित्ते - स्वीयान्तःकरणे । विशत् - प्रविशत् । “तिलतुषतटकोणे कोटिकोष्ट्र प्रसूता" एतद्वचोवत् "कीटिका तिलतुषतटकोणे उष्टं प्रसूता" इत्याकारकवचनमिव । क्लिष्टम् - असम्भवार्थकरम्बिततया सङ्क्लेशावहम् । कुमतम् - चार्वाकाद्यपरदर्शनसिद्धान्ततत्त्वम् । मतिरति - मतेर्बुद्धेरतिरानन्दो यस्मात्तत्तथा
१९