SearchBrowseAboutContactDonate
Page Preview
Page 27
Loading...
Download File
Download File
Page Text
________________ (आ.श्रीहर्षविनयसूरिशिष्यधर्महंसविरचितम्) कीटिकोष्ट्रं प्रसूता (आदिजिनस्तवनम्) (सवृत्तिकम्) | वृत्तिः - स्व.आ.श्रीविजयधर्मधुरन्धरसूरिः मतिरणुसममाना मे तवाऽऽदीश मेरूनतगुणनुतिमाप्ता दुष्षमायां भवे नुः । क्वचिदुदितमुदा यत् प्राहिणोत्तत् किमुक्- .. तिलतुषतटकोणे कीटिकोष्ट्रं प्रसूता ॥१॥ (अन्वयः) आदीश ! अणुसममाना, आप्ता, मे मतिः, नुः भवे, दुष्षमायाम्, उदितमुदा, यत् उाम्, क्वचित्, तव, मेरून्नतगुणनुतिम्, प्राहिणोत्, तत्, कीटिका, तिलतुषतटकोणे, उष्ट्रम्, प्रसूता किम् ? (वृत्तिः) आदीश ! हे आदीश्वर ! युगादिदेव ! अणुसममाना - परमाणुतुल्यपरिमाणा । अत्यल्पविषयेति यावत् । आप्ता - आप्तजनानुगता । मे - मम । मतिः - बुद्धिः । नुः - मनुजस्य । भवे - जन्मनि, मनुष्यजन्मनीति पदद्वयस्याऽर्थः । दुष्षमायाम् - दुष्षमानामकपञ्चमारके । उदितमुदा - समुदितहर्षेण । यत् - यस्मात् । उक्म् - पृथिव्याम् । क्वचित् - कुत्रचित् । तव - भवतः आदीश्वरस्य । मेरून्नतगुणनुतिम् - सुमेरुपर्वतसदृशोच्चकेवलित्वादिगुणस्तुतिम् । प्राहिणोत् - प्राचीकटत्, अकरोदिति यावत्, धातूनामनेकार्थत्वात् । तत् - तस्मात् । कीटिका - कीटस्त्री, पिपीलिका । तिलतुषतटकोणे - तिलस्य - सातिशयलघुत्वेन - प्रसिद्धस्नेहोपादानधान्यविशेषस्य तुषः त्वविशेषः । "धान्यत्वक् तुषः" ४/२४८ इत्यभिधानचिन्तामणिः । तस्य - तटकोणः प्रान्तविदिग्भागस्तत्र तथा । उष्ट्रम् - क्रमेलकम् । प्रसूता - प्रासूयत । किमिति - वितर्केऽव्ययम् । कीटिकाकर्तृकतिलतुषतटकोणाधिकरणक-क्रमेलककर्मकप्रसव इव परमाणुतुल्यपरिमाणमदीयमतिकर्तृक-मनुष्यभवदुष्षमाराधिकरणकभवदीयमेरुपर्वतोन्नत-केवलित्वादिगुणस्तव इति । "वाक्यार्थयोः सदृशयोरैक्यारोपो निदर्शना । यद्दातुः सौम्यता सेयं पूर्णेन्दोरकलङ्कता" । इति चन्द्रालोकीयलक्ष्यलक्षणानुसारी निदर्शनालङ्कारः । जिनेश्वरगुणकदम्बकस्तवनासामर्थ्येन तदीयगुणानां प्राशस्त्यं परमौन्नत्यञ्च व्यज्यते । एवञ्च कविगतश्रीमदादीश्वरविषयकरत्याख्यभावाभिव्यञ्जनाद्भावध्वनिकाव्यमिदम् । “रतिर्देवादिविषया व्यभिचारी तथाऽञ्जितः ॥ भावः प्रोक्तः" इति काव्य १८
SR No.521034
Book TitleNandanvan Kalpataru 2015 08 SrNo 34
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2015
Total Pages86
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy