________________
(वृत्तिः) कार्मणानन्तकाणुस्थितिभृतिमति कर्मणां - ज्ञानावरणाद्यष्टविधानां ये अनन्ता अपरिमिता एव अनन्तका अणवस्तेषां स्थितिः स्वस्थानम् भृतिर्भरणं ते उभे अस्मिन्निति कार्मणानन्तकाणुस्थितिभृतिमान्, तस्मिंस्तथा । अपि सम्भावनायाम् । सौवत्वे - स्वात्मतत्त्वे । तव - श्रीमतो भवत आदीश्वरस्य । सुसूक्ष्मध्यानजाम् - अतिसूक्ष्मचिन्तनजनितां कैवल्यसूचि - कैवल्यं केवलित्वमेव सूचिरभिनयस्तां तथा। "सूच्यभिनये व्यधने" इति हैमानेकार्थः । सूचि-सूचिशब्दयोः पर्यायताया लोकशास्त्रोभयसिद्धत्वात् । अयन्ती - गत्यर्थकभौवादिकाद् 'ई'-धातोः शत्रन्तस्य स्त्रीत्वविवक्षायां रूपमिदम्, समधिगच्छन्तीमित्यर्थः, गतिप्राप्त्योरुभयोर्गत्यर्थक-धातुवाच्यत्वात्, भविकतर्ति - भव्यात्मजनपरम्पराम् । प्रेक्ष्य - अवलोक्य । कश्चित् - अनिर्दिष्टनामा जनविशेषः । “तिलतुषतटकोणे कीटिकोष्टं प्रसूता" (इति) वदति - आह ॥२०॥
इत्थं श्रीगुरुपूज्यहर्षविनयश्रीसूरितः संस्तुति भक्तिव्यक्तितया ममेश विमलाद्रीन्द्रश्रियां मण्डनम् । त्वं संयच्छ भवे भवेऽभवभवं बोधि सुबोध्याङ्करं
दिव्यानन्ददधर्महंसललनाब्जप्राज्यराज्यश्रियम् ॥२१॥ , (अन्वयः) ईश ! इत्थम्, मम, भक्तिव्यक्तितया, संस्तुतिम्, इतः श्रीगुरुपूज्यहर्षविनयश्रीसूः विमलाद्रीन्द्रश्रियां मण्डनम्, त्वं, भवेभवे, अभवभवम्, सुबोध्याङ्करम्, दिव्यानन्ददधर्महंसललनाब्ज - प्राज्यराज्यश्रियं, बोधि, संयच्छ ॥२१॥
(वृत्तिः) ईश ! प्रभो ! इत्थम् - अनेन प्रकारेण मम - मल्लक्षणस्य जनस्य, भक्तिव्यक्तितया - भक्तिप्रवणत्वेन । संस्तुति - समीचीनस्तुतिम् । इतः - समधिगतः । श्रीगुरुपूज्यहर्षविनयश्रीसूः - श्रीगुरुतया - शोभाश्रेष्ठत्वेन पूज्याया अाया हर्षविनयश्रियः - प्रमोदनम्रतालक्ष्म्याः सूः कारणरूपः । विमलाद्रीन्द्रश्रिया - सिद्धाचललक्ष्म्याः । मण्डनम् - अलङ्काररूपः । त्वं श्रीमानादीशो भवान् । भवे भवे - प्रतिजन्म, अभवभवं - जननाभावावहम् । क्षेमक्षमम् अतिशयकल्याणस्वरूपम् । "भवः क्षेमेशसंसारे सत्तायां प्राप्तिजन्मनोः" इति मेदिनी । सुबोध्याङ्करं - सुबोध्याङ्करस्य स्वरूपम् । दिव्यानन्ददधर्महंसललनाब्जप्राज्यराज्यश्रियं - दिव्यानन्ददः - अलौकिकप्रमोददायकोऽयं धर्म एव हंसस्तस्य ललनाब्जं क्रीडनपद्ममेव प्राज्यं प्रभूतं राज्यन्तस्य श्रीलक्ष्मीस्तान्तथा बोधि - ज्ञानम् । संयच्छ - प्रदेहि।