________________
सादर मे नमो नमः प्रो. कमलेशकुमार छ. चोक्सी
आदाने च प्रदाने च दीर्घोडदीर्घश्च जायते ।'
तस्मै हस्ताय देवाय सादरं मे नमो नमः ॥१॥ हनने रक्षणे चैव मृदुर्मूर्त्तश्च जायते ।
तस्मै हस्ताय देवाय सादरं मे नमो नमः ॥२॥ जीवने मरणे चैव विषममूतं च जायते ।
। तादृशायाऽलदेवाय सादरं मे नमो नमः ॥३॥ मोक्षाय ज्ञानसम्पनः बन्धायाऽज्ञानसम्पदः ।
तस्मै गुरुचरणाय सादरं मे नमो नमः ॥४॥ हर्षाय कल्प्यते यद्धि प्रान्ते शोकावहं भवेत् ।
.. तस्मै व्यसनदेवाय सादरं मे नमो नमः ॥५॥ विकासे साधनो यो हि विनाशे वेपनायते ।"
भौतिकाय विकासाय सादरं मे नमो नमः ॥६॥ यशो लभे धनं लभे लभे पदविमुत्तमाम् ।' .
लाभकरोडप्यलाभाय भाग्यदेवाय ते नमः ॥७॥ उच्चासीनैर्मया भाव्यम् इच्छा बोभूयते सदा ।
तादृश्यै इच्छादेव्यै दूरादस्तु नमो नमः ॥८॥
१. दीर्घा ह्रस्वश्च जायते । २. पात्रानुसारं आदाने दीर्घत्वम् प्रदाने हृस्वत्वम् इति विवेकः । कृपणाः दानिनश्च विरुद्धमाचरन्ति, अतः । ३. मूर्तम् अर्थात् कठोरम्, क्रूरम् वा । ४. (Weapon) वेपनम् नाम आधुनिकानि अस्त्र-शस्त्राणि । परभाषीयः शब्दोऽयं तथैवात्र स्वीकृतः । तस्य - संस्कृतभाषानुवादेन संस्कृतकोशे तादृशशब्दराशिवर्धने उत्साहाभावात् । अथ च संस्कृतमाश्रित्य कृते शाब्दबोधे वेपनम्
नाम कम्पः, वेपनम् इव आचरति (- उत्पादयति) इत्यर्थे नामधातुप्रयोगः । ५. पदविमुन्नताम् ।
संस्कृतविभाग, भाषासाहित्यभवन, गुजरात युनिवर्सिटी, अहमदाबाद-३८०००९ Email : kamleshc25@yahoo.co.in