SearchBrowseAboutContactDonate
Page Preview
Page 39
Loading...
Download File
Download File
Page Text
________________ व्यङ्गयपृषताः आर्यागीतेषु चाटुशास्त्रोपदेशः म.म. देवर्षिः कलानाथः शास्त्री उच्चकलाशालातः, सम्पूर्य स्नातकोत्तरां कक्षाम् । जीवनसङ्घर्षऽहं प्रविविक्षुः, प्राणमं मदीयगुरुम् ॥१॥ गुरुवर्येणाऽऽशीभिः संयोजयता हि यत् समुपदिष्टम् । तत्त्वं तद् बहुमूल्यं मानसमथाऽपि मे प्रमथ्नाति ॥२॥ उपनिषदो विमृशद्भिस्तथ्यमिदं ज्ञातमेव विबुधैः स्यात् । यच्छिक्षायाः पूर्तावुपदेशो दीयते स्म शिष्येभ्यः ॥३॥ , ऋषिभिः पूर्व,रथ तु नव्यतमेऽस्मिन् युगे युगानुगुणम् । . वेदमनूच्याऽऽचार्योऽन्तेवासिनमेवमेवमनुशास्ति ॥४॥ वत्स ! त्वया गृहीताः सकला विद्याः, श्रुतिः, स्मृतिर्धर्मः । चाकोवाक्यं, दर्शनशाखा., व्याकरण-काव्यशास्त्र-भिदाः ॥५॥ इतिहासोऽथ पुराणं, राजनयोऽप्यर्थनीतिशास्त्रमपि । किन्त्वस्त्यपरं शास्त्रं, यदि तत् त्वं नैवं साधु जानीषे ॥६॥ नव्ययुगेऽस्मिन् कठिनं त्वत्साफल्यं स्ववृत्तियात्रायाम् । तत् रज्लु शास्त्रं चेतोहारिण्या अस्ति चाटुचर्यायाः ॥७॥ अनुकूलयति तदेवाधिकारिणं, मुख्यकार्यकारिगणम् । नाडद्यावधि साफल्यं केनचिदप्यधिगतं विना ह्येतत् ॥८॥ यद्यपि सैषा विद्या शालास्वध्याप्यते न कुत्राऽपि । तत्त्वज्ञेभ्यः प्रश्नैः, प्रणिपातैः सेवया च लभ्येयम् ॥९॥ 30
SR No.521034
Book TitleNandanvan Kalpataru 2015 08 SrNo 34
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2015
Total Pages86
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy