SearchBrowseAboutContactDonate
Page Preview
Page 40
Loading...
Download File
Download File
Page Text
________________ प्रमुखं त्वस्यास्तत्त्वं तस्य जनस्य प्रसादनं गदितम् । स्तवनेन सेवनेन च यस्याऽस्माकं प्रयोजनं सिध्येत् ॥१०॥ अत्र हि मयका पृष्टं, “गुरुवर्य ! पुरायुगेऽपि भक्तगणैः । स्तोत्रैर्विविधैर्देवाः स्तूयन्ते स्मैव तान् प्रसादयितुम् ॥११॥ गुरुवर्येण स्पष्टं प्रतिपादयता प्रबोधितोऽत्राऽहम् । वत्स ! स्पष्टमवेहि, द्वावपि भिन्नौ, स्तुतिश्च, चाटुश्च ॥१२॥ सत्सु गुणेषु हि तेषां कथनं स्तुतिरित्युदीर्यते विबुधैः । चाटुकृतिस्तु विवरणं विविधगुणानामसत्स्वपि गुणेषु ॥१३॥ प्रमुखतया तद् द्विविधं वाचिकमपि चाटु, आङ्गिकं चाऽपि । वचनैः स्तवनं, तद्गुणविवेचनं भवति वाचिकं चाटु ॥१४॥ तदपि बहुविधं प्रोक्तं, नानासम्बोधनस्तरप्तमपैः । आख्यानं, तेन कृतं यत् कार्यं, तस्य दीर्घवर्णनिका ॥१५॥ किन्तु तदेतत् सर्वं मध्यमचाट्वे मन्यते लोके । उत्तमचाटुगुणानां प्रसारणं श्रव्यदृश्यमाध्यमतः ॥१६॥ तज्जीवनचरितानां मुद्रणमथवा प्रसारणं तेषाम् । साक्षात्कारविद्याभिः, सर्वमिदं कथितमुत्तमं चाटु ॥१७॥ अधमं याटु तु तस्मै, तत्पल्यै वोपहारदानं स्यात् । जन्मदिने वाऽन्यस्मिन्नुत्सवकाले तथैव तत्सेवा ॥१८॥ सत्ताधरं तु देवं देवीं वा संप्रकल्प्य तन्मूर्तेः । नीराजनं, तदर्थ स्तवान् विलेख्य, प्रसारणं तेषाम् ॥१९॥ तन्मन्दिरनिर्माणं “चालीसा"ख्यस्तवैस्तदाशंसा । सर्वमिदं चाटुकारैः क्रियते तद् हाऽधमाधमं चाटु ॥२०॥ यदि तेन काचिदुक्ता, विनोदगर्भाउल्पिका विदग्धोक्तिः । तदुपरि मुक्तं हास्यं विबुधैर्मतमेकमाङ्गिकं चाटु ॥२१॥ यदि मञ्चोपरि सोऽयं प्रभाषते, तस्य वाक्यसम्पूर्ती । करतलताडनशब्दैः प्रसादनं तस्य, मन्यते परम् ॥२२॥ मयका सविनयमुक्तं, “गुरुचरणाः ! वाचिकाङ्गिकादिकतः । अपरोऽप्येको भेदश्चाटूक्तेर्विस्मृतः कथं भवता ? ॥२३॥ लिपिगतमेकं चाटु प्रायः परिदृश्यते युगेऽस्माभिः । . एकमपि "श्री"ति पदं पर्याप्तं भवति पूज्यनामतः पूर्वम् ॥२४॥
SR No.521034
Book TitleNandanvan Kalpataru 2015 08 SrNo 34
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2015
Total Pages86
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy