SearchBrowseAboutContactDonate
Page Preview
Page 41
Loading...
Download File
Download File
Page Text
________________ किमिति तदाऽप्यष्टाधिकशतं सहस्रं प्रयुज्यते श्रीणाम् । कतिपयनाम्नां स्तुतये, यद्यपि ते मानवा, न देवास्ते ॥२५॥ तदेदं श्रुत्वा गुरवः प्रोचु - "र्वत्स ! त्वयाऽर्जिता विद्या । स्फुरणाऽपि च सञ्जाता, गच्छ, भविष्यस्यसंशयं सफलः ॥ २६ ॥ यस्मिन्नपि कार्ये त्वं नियोजितः स्याः, कुरुष्व विद्यायाः । अस्याः स्फुटं प्रयोगं, सेयं भवतारिणी परा विद्या ॥२७॥ सत्तासीनानां खल्वभिनन्दनमुच्यतेऽपरा विद्या । मानदशिक्षा विद्योपाधिजलैस्तर्पणं परा विद्या ॥२८॥ अस्यां शिक्षणसंस्थासञ्चालक एव केवलं क्षमते । बिरुदार्पणविद्यायां तदिदं खलु कारणं परत्वस्य ॥२९॥ देशेऽस्मिन् नृपतीनां स्वर्गमनानन्तरं यथा पूर्वम् । तेषां कुलधुर्याः खल्ववहन् राज्याधिकारमर्यादाम् ॥३०॥ नूलेऽप्यद्य युगेऽस्मिन् प्रमुखानां देश- लोक-नेतॄणाम् । वंशजरत्नैरेव प्रायः सत्ताधुरा विधार्येत ॥३१ ॥ अत एवाऽद्य विशिष्टां ये सत्ताधारिणो युगप्रमुखाः । तेषां कुलधुर्यः को योग्यः ? तत्राऽवधानमादध्याः ॥३२॥ तस्याऽनुसरणकार्ये साम्प्रतमेवाऽस्ति यो युवा कुशलः । तस्य भविष्यत्कालः स्वर्णमयः स्यादिदं दृढं वच्मि ॥३३॥ इदमत्र प्रतिबोध्यं यत् सत्तायाश्च सद्गुणानां च । अविनाभावाख्यः खलु सम्बन्धोऽस्मिन् नवे युगे भवति ॥ ३४ ॥ सत्ताssसीने हि जने येऽस्माभिः सद्गुणाः स्तुता अद्यं । पञ्चसु वर्षेष्वथवा कदाऽपि केनाऽपि कारणेन स वै ॥३५॥ यदि सत्तातश्च्यवते, तस्मिन् दृश्यते नैककोऽपि गुणः । ते प्रत्यागच्छेर्यदा परावर्तते पुनः सत्ता ॥३६॥ समवायिकारणं त्वं सकलगुणानां; निषेव्यते लोकैः । जगति स, यस्त्वां धत्ते, भगवति सत्ते ! नमो नमस्तुभ्यम् ॥३७॥ ~~~X~~~ ३२ C/8, पृथ्वीराज रोड़, सी. स्कीम, जयपुर
SR No.521034
Book TitleNandanvan Kalpataru 2015 08 SrNo 34
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2015
Total Pages86
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy