SearchBrowseAboutContactDonate
Page Preview
Page 66
Loading...
Download File
Download File
Page Text
________________ काव्यानुवादः (संस्कृतानुवादः) अद्भुतं जगत् !! मुनिकल्याणकीर्तिविजयः पश्याम्यहं हरितवृक्षान्, रक्तपाटलपुष्पाणि चाऽपि मदर्थं तानि फुल्लितानि भवदर्थं वाऽपि ततोऽहं चिन्तयामि स्वयं कीदृशमद्भुतं जगत् !! विलोकयामि नीलमम्बरं मेघसमूहं सित - गौरम् कृष्णशर्वरीमतिपवित्रां प्रोज्ज्वलपुण्यमयं वासरम् ततश्च चिन्तयामि स्वयं कीदृशमद्भुतं जगत् !! मेघधनुषो वर्णका अद्भुतका नभसो भूषकाः इतस्ततो विचरतां जनानामास्यलास्यकाः अतोऽहं चिन्तयामि स्वयं कीदृशमद्भुतं जगत् !! निरीक्षेऽहं सुहृदः परस्परं हस्तधूनका : 'कथमस्ति भवान् ?' - पृच्छकाः तेऽपि 'प्रीणाम्यहं भवन्त' मिति सोल्लासं शंसकाः ततश्च चिन्तयाम्यहं ननु कीदृशमद्भुतं जगत् !! पश्याम्यहं रुदतो डिम्भान् संवर्धमानांश्चाऽपि ते प्राप्स्यन्ति तावज्ज्ञानं यदहं ज्ञास्ये न कदाऽपि तथा च चिन्तयामि स्वयं आम् अहं चिन्तयामि स्वयं कीदृशमद्भुतं जगत् !! ~~~X~~~ ५७
SR No.521034
Book TitleNandanvan Kalpataru 2015 08 SrNo 34
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2015
Total Pages86
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy