________________
कथा
कथं पात्रं न भियते ? मुनिधर्मकीर्तिविजयः
कस्यचित् सम्राजो द्वापेको भिक्षुकस्तिष्ठन्नासीत् । सम्राट् पृष्टवान् - किमिच्छसि ?
भिक्षुक उवाच - न किमप्यधिकमिच्छामि, एकैवेच्छाऽस्ति, यद् ममेदं भिक्षापात्रं भ्रियेत । राजन् ! लघु पात्रमस्ति, तत्पात्रं बिभृहि ।
सम्राजा चिन्तितम् - एतत्त्वतीव लघु पात्रमस्ति । किमन्नेन एतद् भरणीयम् ? तत्क्षणं सम्राट कोशाध्यक्षमादिष्टवान् - भिक्षुकस्य पात्रमेतद् बिभृहि सुवणमुद्रया, इति ।
यावत् सम्राजो निधिर्न रिक्तो जातः तावत् भिक्षुकस्य पात्रे सुवर्णमुद्रा भृताः, तथाऽपि तत्पात्रं न्यूनमेव स्थितम् ।
सम्राट् पृष्टवान् - कथं पात्रं न भ्रियते ?
भिक्षुकोऽवोचत् - राजन् ! एतत्पात्रं मानवीयकरोट्या रचितमस्ति । तत्पात्रं किं कदाऽपि भ्रियेत वा? तत्पात्रेण कदाऽपि तृप्तिर्नाऽनुभूयते । तृष्णा शान्ता नैव भवेत् ।
५८