________________
कथा
गुरोनिर्देश:
सा. दृष्टियशाश्रीः
गुरुकुलवासे एको राजपुत्रः शास्त्राभ्यासं करोति स्म । एकदा गुरुः कथितवान्, "त्वं अस्मिन् वृक्षे आरुह" । अहं तव शरीरस्य परीक्षां करिष्यामि । राजपुत्रोऽवोचत्, "गुरो ! अहं कदाऽपि वृक्षे नाऽऽरूढः, तर्हि कथं आरोहिष्यामि ।" गुरुरवदत्, "यस्य मनसि 'अहं कुशलोऽस्मि' एवं मानो भवति स जीवः पतति अन्यथा न, ततस्तव कोऽपि विघ्नो नाऽऽगमिष्यति" ।
राजपुत्रो गुर्वाज्ञां मत्वा शनै: शनैरारोढुमारभत । सावधानं स आरुरोह । स एवं चिन्तितवान् यद् गुरुर्मह्यं मार्गदर्शनं दास्यति परं गुरुर्मोनमाश्रितवान् ।
राजपुत्रो वृक्षस्याऽग्रेतनभागं प्राप । पश्चात् सो अध आगन्तुं प्रारभत । अश गुरुः पुनः पुनः शिक्षितुमारेभे । राजपुत्रो मनाग् विचित्रमनुभूतवान् । 'अथ यदाऽहं जानामि तदा पुनः पुनर्निर्देशं करोति । यदा निर्देश आवश्यकोऽस्ति तदा गुरुमौनोऽभूत् । राजपुत्रो गुरोः पद्धतिं नाऽऽजानात् । स पृष्टवान्, “किमर्थमेवं करोति भवान् ?"
गुरुर्हसित्वाऽकथयत्, “यदा त्वमारोहः तदा त्वं चिन्तितवान् यन्मम काऽपि कुशलता नास्ति । ततश्च त्वमत्यन्तं सावधानं आरूढः । परं त्वारोहणानन्तरं त्वं चिन्तितवान् यद् मयि कुशलता समागता। ततस्त्वं निश्चिन्तो जातः । अतोऽहं त्वां पुनः पुनः सावधानं कर्तुं प्रयत्नमकार्षम् ।
जीवने एवं भवति - यदा नरः शिखरे वर्तते तदा स न अधः पश्यति । तदर्थं शिखरे सावधानता आवश्यक्यस्ति ।
-x
६४