________________
पत्र-चर्चा
| प्रो. कमलेशकुमार छ. चोकसी
. नन्दनवनकल्पतरोः गते ३३तमे अङ्के (३२तमे अङ्के मदीया एका रचना प्रकाशिता वर्तते । ताम् अधिकृत्य) ३ पृष्ठे डा. रूपनारायणपाण्डेयानां टिप्पणी एका प्रकाशिता । तैः महोदयैः - न जाने को परम्परामनुसरति प्रो. चोकसीमहाभांगः - इति एकवचनमाश्रित्य प्रश्नः कृतः । तेभ्यः सादरं विनिवेद्यते यद् वाराणां परम्परा अस्मदीया नास्ति । यदा अस्मदीया परम्परा एव नास्ति, तदा कां परम्पराम् अनुसरेत् प्रो. चोकसीमहाभागः ? इति प्रतिप्रश्नः । (वाराणां विषये अधिकावबोधाय कृपया पठन्तु पुस्तकमिदम् - हमारा ज्योतिष और धर्मशास्त्र (पृ. ७० तः), लेखक - हरिहर पाण्डेय, प्रकाशकः - उत्तरप्रदेश हिन्दी संस्थान, लखनऊ उ.प्र.)
. . अथ च गुजरातप्रदेशे षष्ठकक्षायां संस्कृतं पाठ्यते । तत्र एकः पाठः (प्रथमसत्रे षष्ठः पाठः, पृ. २०-२२) वारविषयकः वर्तते । तत्र तस्य शीर्षकम् अस्ति सप्त वासराः । अस्मिन् पाठे यादृशं विषयवस्तु पठ्यते तादृशं वस्तु प्रति न मे अनुरागः । अतः प्रथमं मया उक्तस्य पाठस्य स्थाने तदनुरूपमेव एकः पाठः परिकल्पितः । (स चाऽयमस्ति - सप्त वासराः । (शीर्षकम्) ततः पाठारंभः - सप्तानां दिनानां समूहं सप्ताहं कथयन्ति । सप्ताहे सप्त दिनानि भवन्ति । प्रत्येकं दिवसस्य पृथक् पृथङ् नामानि सन्ति । सप्तानां दिनानां नामानि सन्ति - रविवासरः सोमवासरः मङ्गलवासरः बुधवासरः गुरुवासरः शुक्रवासरः शनिवासरः च । रविवासरं भानुवासरम् अपि कथयन्ति जनाः । बुधवासरस्य अपरं नाम अस्ति भौमवासरः । गुरुवासरः बृहस्पति-वासर-नाम्ना प्रसिद्धः वर्तते ।।
प्रत्येकं वासरः क्रमेण प्रवर्तते । अद्य यदि शुक्रवासरः, ह्यः गुरुवासरः आसीत्, श्वः च