________________
कथा
योग्यता
सा. धृतियशाश्रीः
संसारस्य विचित्रस्वरूपं दृष्ट्वा नृपो भर्तृहरिः संन्यासमङ्गीकर्तुं सज्जोऽभवत् । गुरुं निर्णीतवान् स्वञ्च सन्यासं दातुं विज्ञप्तवान् ।
भर्तृहरेः पात्रतां द्रष्टुं गुरुस्तस्य परीक्षार्थं कथितवान्, “गच्छ पार्वे स्थितादवकरात् वस्त्रस्य जीर्णखण्डानि आनय" । य एकसमये सम्पूर्णराज्यस्य नृप आसीत् तं गुरुरवकरमध्ये गन्तुं कथयति । भर्तृहरिगुरोराज्ञां मत्वाऽवकरात् वस्त्रखण्डान्यानीतवान् । गुरुद्वितीयाज्ञामादिष्टवान् यदथ वस्त्रस्य खण्डानि सीवित्वा कौपीनं कृत्वा परिधेहि । भर्तृहरिः कौपीनं परिधाय पुनरुपस्थितः । अथ तृतीयाज्ञां दत्तवान् यदथ पिंगलायाः प्रासादे गत्वा कथय, "हे मातः ! भिक्षां देहि" ।
___भर्तृहरिर्गुरोराज्ञया पिंगलापार्वे जगाम कथितवाश्च "हे मातः ! भिक्षां देहि" । भिक्षाञ्च याचित्वा पुनर्गुरोः पार्वे आगच्छत् । मानस्य अपमानस्य च सम्पूर्णपरीक्षायां सुवर्णमिव शुद्धि प्राप्तस्य भर्तृहरेः सन्मुखं हर्षपूर्णदृष्ट्या दृष्ट्वा गुरुरकथयत्, “अथ त्वं संन्यासाय योग्योऽसि", भर्तृहरये च संन्यासं दत्तवान् ।