________________
आपणिको गच्छन्तं बालं रुद्ध्वा प्राह - "शृणु ! तव व्यवहारोत्साहश्च मम हृदयं स्पृष्टवन्तौ स्तः। . । असौ श्रीमती तुभ्यं कार्यं न दत्तवती । परमहं दास्यामि । ब्रूहि, मदीय आपणे कार्यं करिष्यसि नु ?"
बालो 'न'कारं पठित्वा पुनः सस्मितोऽभवत् ।
आपणिकः पुनः सविस्मयो जातः पृष्टवांश्च - "एवं चेदसौ श्रीमती कथं कार्यार्थं प्रार्थिता त्वया?"
बालो मिष्टमुक्तवान् - "भोः ! श्रीमन् ! वस्तुतस्तत्श्रीमत्याः किङ्करोऽहमेवाऽस्मि । किन्तु, मत्कार्यमसाधु अस्ति साधु वा, तत्कथं ज्ञायेत ? मत्कार्ये कीदृशा दोषाः सन्तीति ज्ञातुमेव मया भवतो दूरभाषस्योपयोगः कृतः । यतो दोषान् ज्ञात्वा तत्सम्मार्जनं कर्तुमहं शक्नोमि" इति ।
लघोर्बालस्य महतीं वार्ता श्रुत्वाऽऽपणिकस्य प्रसन्नता वृद्धि गता । इतश्च स्वदोषदर्शनवृत्त्या सोऽमुष्याः श्रीमत्याश्चेतसि अपि अनन्य एव स्थितः ।
समाप्तावेका नित्यस्मरणीया वार्ता - स्वदोषदर्शनेन जीवनममूल्यं भवति, परदोषदर्शनेन तु जीवनं निर्मूल्यं भवतीति ।
६२