________________
[३] स्वदोषदर्शनम् . स्वदोषदर्शनं जीवने नूनं कर्तव्यम् । स्वदोषदर्शनं नाम स्वस्मिन् दोषाणमन्वेषणम् । स्वस्याऽपराधानां च सम्मार्जनम् । यद्यपि स्वदोषदर्शनमतिकठिनमस्ति, यतो विश्वस्य जनाः परदोषदर्शनेऽतिहर्षमाप्नुवन्ति । ते परेषां दोषदर्शनं सहर्ष कुर्वन्ति, स्वदोषदर्शने च नितरां दृष्टिविकला भवन्ति । ते हि स्वदोषदर्शनस्य लाभान् न जानन्ति, यतस्त एतस्मिन् स्वदोषादर्शने प्रयत्नशीला भवन्ति । यथा वह्नितापेन मृत्तिकामुक्तं हिरण्यमतिशोभते, तथा स्वदोषदर्शनेन दोषमुक्त आत्माऽप्यतिराजते । किञ्च व्यावहारिकजीवनेऽपि तस्य स्वदोषदर्शनस्य मूल्यं वर्धते । वयमुक्तस्य वृत्तस्य बोधार्थमेकं शोभनं प्रसङ्गं स्मरेम ।
परस्मिन् देशे प्रवृत्तमेतद् वृत्तम् । मध्याह्नः समयः । ११-१२ वर्षीयः कश्चिद् बालः कञ्चिदापणं गतः । तत्रत्यापणिकस्तेन विज्ञप्तस्तत्रस्थदूरभाषोपयोगार्थम् ।
आपणिकः सम्मतिं दत्तवान् । तदानीमापणे ग्राहका नाऽऽसन् । किञ्च, कार्यं कृत्वा बालः शीघ्रमत्राऽऽगत आसीत् । अतस्तस्य हस्तावशुद्धावास्ताम् । ततः स दूरध्वनेः 'speaker' इति सेवामुपयुक्तवान् । आपणिकस्य मनोऽपि तस्य वार्तालापे गतम् । सन्मुखतः कस्याश्चित् महिलायाः स्वर आगतः - "हेलो ! कः वदति ?"
प्रत्युत्तरे बालो मिष्टभाषायां प्राह - "हेलो ! श्रीमतीवर्ये ! अहं भवत्या उद्यानपालको भवितुमिच्छामि । उद्यानपालनं भवत्या मह्यं दास्यते किम् ?"
"क्षम्यतां, तत्कार्यार्थं तु मयाऽन्यः किङ्करो नियुक्तोऽस्ति" - महिला कथितवती ।
"किन्तु, श्रीमति ! अहं तत्कार्थिं भवत्याः सकाशाद् वर्तमानात् सेवकादल्पमेव मूल्यं ग्रहीष्यामि।" - बालः पुनर्विज्ञप्तवान् ।
"साधु, किन्तु इदानीं तु मत्किङ्करकार्येणाऽहं सन्तुष्टाऽस्मि ।" - "किन्तु, श्रीमतीवर्ये ! अहं विना मूल्यं मार्गस्य शुद्धिमपि करिष्यामि" - बालोऽवदत् ।
बालकस्य शोभनां वा रीतिं दृष्ट्वाऽऽपणिकोऽपि उत्सुको जातः । अथ प्रत्युपान्तात् महिला स्पष्टं प्रत्युक्तवती - "भो ! युष्मदीया वार्ता ज्ञायते । परं, मदीयः कार्यकरोऽतिसुज्ञोऽस्ति । स कार्ये दत्तावधानो दक्षश्चाऽस्ति । तस्य कार्यरीत्याऽहमत्यानन्दिताऽस्मि । एतादृशो नितरामर्हः किङ्करो मया कथं त्यज्येत ? कृपयां क्षम्यतां मह्यम् ।" ... वार्ता पूर्णतां प्राप्ता ।
- हृष्टमुखो बालोऽपि आपणिकस्याऽऽभारं मत्वाऽऽपणात् प्रयातुं तत्परोऽभवत् । अत्रान्तरेऽप्राप्तकार्योऽपि - हास्यशीलः स बालः स्वस्य सुन्दरवार्तारीत्याऽऽपणिकस्य हृदयेऽवसत् ।
६१