________________
[२] परमा स्वस्थता
आसीत् कश्चिल्लघुग्रमः । एकः प्रवक्त- मुनिराजस्तस्मिन् ग्रामे चतुर्मासार्थमागतवान् । प्रतिदिनं प्रवचनानि भवन्ति स्म । एकः श्रोता प्रवचने नित्यमागच्छति स्म । मासा व्यतीताः । प्रवक्तृमुनिवर्या अपि तत्भ्रातुर्नियमबद्धतायै धन्यवादं यच्छन्ति स्म ।
परमेकदाऽयं नित्यक्रमो विक्षिप्तो जातः तस्मिन् दिने प्रवचनसमये स भ्राता नाऽऽगतः । मुनयः साश्चर्या सञ्जाताः ।
अन्येद्युः स आगतः । अनुप्रवचनं मुनिवर्यैः स पृष्टः
नाऽऽगतवान् भवान् ?"
-
भ्राता प्राह- "न, न । एवमेव । ह्यस्तने दिने मम प्रतिवेशो भाटकं गृहं त्यक्त्वाऽगच्छत्, अतस्तं प्रस्थापयितुं गत आसम् ।"
" भ्रातः ! गते दिने प्रवचने कथं
कारणं श्रुत्वा मुनिवराः शीघ्रमुपदेशं दत्तवन्तः "रे ! महाशय ! सांसारिककार्यार्थं जिनवचनश्रवणस्य महामूल्यं फलं मा विस्मर । सांसारिककार्यव्यस्ततायां स्वीया आराधना नूनं न त्यक्तव्या" इति । "ओम् गुरुदेव !” - करौ संयुज्य शिरो धूनयित्वा च श्रावकभ्राता प्रत्युक्तवान् । "भवतो वार्ता नितरां सत्या । द्वितीयस्मिन्नवसरे सावधानो भविष्यामि । " एवमुक्त्वा पुनः साधून् प्रणम्य स गतः । तत्पश्चाद् मुनिराजश्रावकभ्रात्रोर्वार्तालापं शृण्वन् निकटस्थः कश्चिदन्यो भ्राता मुनिराजमुपसर्प्य प्राह- “गुरुवर्याः ! भवद्भिरधुना येन सह वार्ता कृता, तस्य एक एब युवा पुत्र आसीत् । योऽकस्माद् ह्यस्तने दिने मृत्युमाप्तवान्.... ।'
-
~~~X~~~
“किम् ?” – उक्तसत्यवार्तां श्रुत्वा मुनिवराः किङ्कर्तव्यमूढा इव सञ्जाताः । " स तु कश्चित् प्रतिवेशो भाटकं गृहं त्यक्त्वा गत' इति उक्तवान् ?" - आघातेन तेऽवदन् ।
"तेन सह 'नवसस्तस्य पुत्र एव तत्प्रतिवेशः । पुत्रस्याऽन्तिमसंस्कारक्रियायाः कारणादेव स गते
दिने प्रवचने नाऽऽगतवान् ।" अमुना भ्रात्रा स्पष्टता कृता ।
परमे दुःखेऽपि कीदृशी साधुवादार्हा स्वस्थता ?
कीदृशी विरागस्योत्तमाऽवस्था ?
हर्षाश्रुणा सह स्तब्धलोचना मुनिवरा अपि तं श्रमणोपासकं गृहस्थं सान्तःकरणमनुमोदितवन्तः ।
एतदुत्तमं वृत्तं पठित्वा वयमस्य सुवाक्यबोधस्याऽवतारणं स्वजीवने कुर्याम - (१) स्वगृहेऽपि अतिथिवद् वसनीयम् । यत आत्मा सर्वदा दुःखविमुक्तो भवेत् । (२) जीवनं च सर्वथा पथिकाश्रमवद् ज्ञातव्यम् । यत आत्मा सुखेऽलीनो दुःखे चाऽदीनो भवितुं समर्थो भवेत् ।
६०