SearchBrowseAboutContactDonate
Page Preview
Page 50
Loading...
Download File
Download File
Page Text
________________ पत्रम् मुनिधर्मकीर्तिविजयः .६ आत्मीयबन्धो ! चेतन ! धर्मलाभोऽस्तु । वयं सर्वेऽपि कुशलाः स्मः । तत्राऽपि सर्वे कुशलाः स्युरित्याशासे । सूरतनगरे चातुर्मासी समाप्य नवसारी-वलसाड-धरमपुर-इत्यादिकानि नगराणि विहृत्येदानी कर्णावतीनगरे समागताः स्मः । अद्य जीवनविषयकं किञ्चिल्लिखामि । सर्वेषां प्राणिनां जीवनं भिन्न भिन्नं तथा स्व-स्वप्रकृत्यनुरूपमेव स्यात् । सूक्ष्मजन्तवो जीवन्ति, कुञ्जरा जीवन्ति, वने वसन्तोऽनभिज्ञभिल्लजना अपि जीवन्ति तथा नगरे वसन्तः शिक्षिताः संस्कारिजनाश्चाऽपि जीवन्ति । एवं वस्तुतोऽस्यां पृथिव्यां जन्मधारिणः सर्वेऽपि जीवाः स्वप्रकृत्यनुरूपं स्वस्थानमाश्रित्य जीवन्ति । किं नाम जीवनम् ? एष प्रश्नो महत्त्वपूर्णोऽस्ति । जन्मधारणं, आहारकरणं, क्रीडनं, शयनं, धनार्जनं, विवाहकरणं, पुत्रोत्पादनं, प्रान्ते प्राणमोचनं चैतदेव जीवनम् ? एतत्तु सर्वेऽपि जीवाः कुर्वन्त्येव । ४१
SR No.521034
Book TitleNandanvan Kalpataru 2015 08 SrNo 34
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2015
Total Pages86
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy