________________
अविनाशि तु तद्विद्धि येन सर्वमिदं ततम् ।
विनाशमव्ययस्याऽस्य न कश्चित्कर्तुमर्हति ॥ सा सत्ता, यस्यां सम्पूर्णसंसारो व्याप्तः, तत्सत्परमात्मैव । भगवता स्वयमुक्त -
मया ततमिदं सर्वं जगदव्यक्तमूर्तिना ॥ यस्य वर्णनं श्रुतिरित्थमेव करोति – तत्सृष्ट्वा तदेवाऽनुप्राविशत् । अर्थात् स परमात्मा सृष्टिं कृत्वा स्वयं स्थावरजङ्गमादिसर्वभूतेषु व्याप्तः । अतः श्रीकृष्णोऽर्जुनं कथयति -
मत्कर्मकृन्मत्परमो मद्भक्तः सङ्गवर्जितः ।
निर्वैरः सर्वभूतेषु यः स मामेति पाण्डव ! ॥ अत्र भगवता कृष्णेन 'सङ्गवर्जितः' कथितः । सङ्गः - आसक्तिरात्मनो बन्धनमस्ति । स एव सङ्गो यदा भगवतो भक्तान् प्रति भवति, तदा स मोक्षं ददाति । यतो हि सत्समाजे सदा भगवद्गुणचर्चा भवति, सा चर्चा मोक्षाऽभिलाषिजनस्य बुद्धि भगवद्वासुदेवे स्थापयति । यथा -. ..
यत्रोत्तमश्लोकगुणानुवादः प्रस्तूयते ग्राम्यकथाविधातः ।। निषेव्यमाणोऽनुदिनं मुमुक्षोर्मति सतीं गच्छति वासुदेवे ॥
- श्रीमद्भागवतम् - ५/१२/१३ अतः सत्कथां = हरिकथां विहाय सर्वमसत् । यथोक्तं -
मृषा निरस्ता ह्यसतीरसत्कथा न कथ्यते यद्भगवानधोक्षजः । तदेव सत्यं तदुहैव मङ्गलं तदेव पुण्यं भगवद्गुणोदयम् ॥
. - श्रीमद्भागवतम् - १२/१२/४८ सत्सङ्गसुधारसपिपासुभक्तराजध्रुवः सत्सङ्गाय भगवन्तं प्रार्थयति -
भक्तिं मुहुः प्रवहतां त्वयि मे प्रसङ्गो भूयादनन्तमहताममलाशयानाम् । येनाऽञ्जसोल्बणमुरुव्यसनं भवाब्धि नेष्ये भवद्गुणकथामृतपानमत्तः ॥
- श्रीमद्भागवतम् - ४/९/११ इत्थं भगवतोऽविचलभक्त्या जीवन्मुक्तिः प्राप्यते -
सत्सङ्गत्वे निस्सङ्गत्वं निस्सङ्गत्वे निर्मोहत्वम ।
निर्मोहत्वे निश्चलत्वं निश्चलत्वे जीवन्मुक्तिः ॥ जीवन्मुक्त्या भगवत्प्राप्तिर्भवतीति शम् ।।