________________
एकाकी नि:स्पृहः शान्तः पाणिपात्रो दिगम्बरः । कदा शम्भो ! भविष्यामि कर्मनिर्मूलने क्षमः ॥ अतो वैराग्यं विहाय निर्भयस्थानमपरं नास्ति । यथा
भोगे रोगभयं कुले च्युतिभयं वित्ते नृपालाद् भयम् । माने दैन्यभयं बले रिपुभयं रूपे जराया भयम् । शास्त्रे वादभयं गुणे खलभयं काये कृतान्ताद् भयम् । सर्वं वस्तु भयान्वितं भुवि नृणां वैराग्यमेवाऽ ऽभयम् ॥ अग्रे भर्तृहरिणा कथितं
-
भोगा न भुक्ता वयमेव भुक्तास्तपो न तप्तं वयमेव तप्ताः । कालो न यातो वयमेव यातास्तृष्णा न जीर्णा वयमेव जीर्णाः ॥ आशपिशाचिनीकारणादेव जीवनस्य दुर्दशा भवति । श्रीमता शङ्कराचार्येण गदितं
अङ्गं गलितं पलितं मुण्डं दशनविहीनं जातं तुण्डम् । वृद्धो याति गृहीत्वा दण्डं तदपि न मुञ्चत्याशापिण्डम् ॥
अतो यस्य शरीरे वैराग्यं, तस्य शरीरनाशान्न भयमस्ति । यथा कथितं
-
अवश्यं, यांतारश्चिरतरमुषित्वाऽपि विषयाः, वियोगे को भेदस्त्यजति न जनो यत्स्वयममून् । व्रजन्तः स्वातन्त्र्यादतुलपरितापाय मनसः, स्वयं त्यक्ता ह्येते शमसुखमनन्तं विदधति ॥
अत एव भर्तृहरिणा कथितं
-
—
३९
-
अजानन् दाहार्तिं पतति शलभस्तीव्रदहने,
न मीनोऽपि ज्ञात्वा बडिशयुतमश्नाति पिशितम् । विजानन्तोऽप्येते वयमिह विपज्जालजटिलान्, न मुञ्चामः कामानहह ! गहनो मोहमहिमा ॥
अतो वैराग्यशस्त्रेण मोहमूलं नश्यते । सत्सङ्गजातज्ञानेनाऽपि मोहनाशो भवति । सत्सङ्गस्य तात्पर्यमस्ति सदि - आसक्ति: । 'सत्' शब्दो गीतायां परमात्मने प्रयुक्तः । यथा - ओं तत्सदिति निर्देशो ब्रह्मणस्त्रिविधः स्मृतः । यस्य कदाऽप्यभावो नास्ति । कथितमत्र • नाभावो विद्यते सतः । ईदृशमव्ययं सद् परमात्मैव । यथा
-