________________
भवाब्धौ भ्रमतां नाथ, प्राप्तं यत्तव शासनम् । तेन मन्ये निजं धन्यं, कूतपुण्यं जगत्पते ! ॥२४॥ जगदर्घ्यं जिन ! त्वां ये, नमन्त्येकाग्रमानसाः । ते धन्या वन्दनीयाश्च, पुण्यभाजः सुरैरपि ॥२५॥ भवाटवीभ्रमद्भव्यशुद्धमार्गप्ररूपिणे । करुणाम्भोधये तुभ्यं, नमः श्रीपरमात्मने ॥२६॥ सुरासुरनमस्याय, विश्वानन्दविधायिने । कर्मामयविमुक्ताय नमः श्रीपरमात्मने ॥२७॥ त्वत्समो नाऽपरो दाता, मदन्यो नैव निर्धनः विधाय करुणां तस्माद्, वाञ्छितार्थं समर्पय ॥२८॥ पुण्यं त्वच्छासनं नाथ ! सर्वसौख्यैककारणम् । कलौ दुरापं सम्प्राप्तं, तद्भाग्यं मे महत्तरम् ॥२९॥ प्रार्थये हे जगद्वन्द्य !, भूयो भूयो दयार्णव !। त्वदीयं शासनं मेऽस्तु, सदा जन्मनि जन्मनि ॥३०॥ यज्ज्ञानदर्पणे सर्वं, विश्वं प्रतिफलत्यदः ।। स नाथ शरणं मे स्यात्, स्वप्ने वा जागरेऽपि च ॥३१॥ त्वत्पादपजं भक्त्या, ये नमन्ति नरोत्तमाः । न भ्रमन्ति भवाटव्यां; ते कदाचिज्जिनोत्तम ! ॥३२॥ . वेदाक्षिणाक्षिमितसंवति(२०२४) पादलिप्ते, शत्रुञ्जयेशऋषभेश्वरसुप्रसादात् । श्रीनेमिसूरिविजयामृतदेवशिष्ट्या, द्वात्रिंशिकां विहितवान् मुनिहेमचन्द्रः ॥३३॥
wwwwwwww