________________
श्रीनेमिसौभाग्यमहाकाव्यम्
आ. विजयहेमचन्द्रसूरिः
॥ अथ चतुर्थः सर्गः ॥ अथ स्वहस्तादृतसाधुवेषो,
. वैराग्यरङ्गोल्लसितात्मवृत्तिः । श्रीवृद्धिचन्द्राहगुरोः प्रसाद,
वाञ्छन्नुपेयाय तदंहिमूले. ॥१॥ (उपजातिः) प्रसाददृष्ट्या गुरुणा स दृष्टः,
सम्भाषितश्चापि सुहृद्यवाचा । तदीयसत्सव्यकराजनिर्यद्
वासप्रचूर्णाञ्चितशीर्षकोऽभूत् ॥२॥ चारित्रमार्गे स्वसुतं विदित्वा,
सम्प्रस्थितं चन्द्रयुतः स लक्ष्मीः । न्याय्यं विदन् तद्धृदयेन किन्तु,
जज्ञे यियासुर्व्यवहारतो हि ॥३॥ इच्छन्न शक्नोति जनो विधातुं,
___करोति चेच्छारहितोऽपि कृत्यम् । यतः स विश्वेऽतुलितप्रभावो
राजेव भाति व्यवहार एव ॥४॥