________________
धन्योऽहं यन्मया नाथ ! कर्मव्याधिविनाशकः । सच्चिदानन्दसम्पूर्णः, सुकृतादीश ! वीक्षितः ॥४॥ कृतार्थं जीवनं मेऽद्य, सफलं च जनुर्मम । नेत्रे इमे पवित्रे च, यल्लब्धं तव दर्शनम् ॥१०॥ सत्यपि त्वादृशे नाथे, तारके त्रिजगत्पतौ । नो चेद् भवाम्बुधेस्तारस्तत्र किं तव गौरवम् ? ॥११॥ अनेके तारिता गथ ! जनाः संसारसागरात् । मम तारण एवाऽद्यः कथङ्कारं विलम्बसे ? ॥१२॥ राजसे मुक्तिधाम्नि त्वं, मज्जामीश ! भवाम्बुधौ । महात्मनां न तद्योग्य-माश्रितोपेक्षणं प्रभो ! ॥१३॥ अहर्निशं व्यथन्ते मां, रागद्वेषादयोऽरयः । साहाय्यं तद्विधेयं मे, त्वया नाथेन सत्वरम् ॥१४॥ नाथ ! प्रतिप्रदेशं ते, सन्त्यनन्ता गुणा विभो । कथमेको गुणस्तेभ्य-स्त्वया मे न वितीर्यते ॥१५॥ अद्य श्वो वा भवाम्भोधे-स्तारकोऽसि त्वमेव मे । कर्तव्येऽवश्यकर्तव्ये, कालक्षेपो न युज्यते ॥१६॥ देवाधिदेव ! सर्वज्ञ !, त्रैलोक्यार्चितपत्कज !। . करुणाम्भोनिधे ! स्वामिन् !, नाथ ! तारय तारय ॥१७॥ अपारेऽस्मिन् भवाम्भोधौ, भ्रान्तोऽनादेरनेहसः । विना त्वां शरणं नास्ति, तन्मां तारय तारय ॥१८॥ जिनाधीश ! जगन्नाथ !, जगद्धितपरायण ! त्वच्चरणाम्बुजद्वन्द्वे, हृद्भुङ्गो मे निलीयताम् ॥१९॥ सर्वं समीहितं सद्यस्त्वत्सेवातः प्रसिद्ध्यति । दूरे प्रयाति दुर्भाग्यं, सद्भाग्यं च प्रसर्पति ॥२०॥ सुखदुःखे अविज्ञाय, कृतो यलो निरन्तरम् । स सर्वो विफलो जातः सुखं तत्त्वं निबोधय ॥२१॥ शिरोमणीयते नाथ ! त्वदाज्ञा यस्य जन्मिनः । अपारोऽपि भवाम्भोधिस्तस्येश ! गोष्पदीयते ॥२२॥ भवाब्धौ मज्जतां नाथ !, त्वदाज्ञा ननु नाव्यति । तदाश्रिता जना नूनं, निस्तरन्ति नसंशयम् ॥२३॥