SearchBrowseAboutContactDonate
Page Preview
Page 60
Loading...
Download File
Download File
Page Text
________________ मर्म गभीरम् मुनिकल्याणकीर्तिविजयः (१) सङ्गीतज्ञता विश्वविश्रुतं सङ्गीतज्ञं मोझार्ट-नामानं कश्चन युवकोऽपृच्छत् - 'महोदय ! भवान् एतावत्यल्पे वयसि कथमिव महान् सङ्गीतकारोऽभवत् ? अहमपि सङ्गीतकलायां नैपुण्यं प्राप्तुमिच्छामि । कि भवांस्तदर्थं मे कानिचन सूचनानि दास्यति वा ? अहं तदनुसारं सङ्गीतं शिक्षितुं प्रयतिष्ये' । __ मोझार्टेन तस्य सविस्तरं सङ्गीतकला-पियानो-तदन्यवाद्यादीनां शिक्षणार्थं तन्नैपुण्यप्राप्त्यर्थं च संबोधितम् । प्रान्ते च मन्दस्वरेण कथितं यत् - ‘एवं भवान् यदि नैरन्तर्येण नियततया च साधनां करिष्यति तदा त्रिंशता वर्षेः समग्रेऽपि सङ्गीतविश्वे भवान् अग्रगण्यो भविष्यति' । ___युवकेनोक्तं साश्चर्यं - 'त्रिंशता वर्षेः ? परं भवांस्तु द्वादशे वयस्येव निपुणसङ्गीतज्ञत्वं प्राप्य विश्रुतो जात आसीत् !!' मोझार्टेन कथितं - 'सत्यं तत् । किन्तु सङ्गीतकलायां नैपुण्यं कथं प्राप्तव्यमित्येतदहं कस्यचन प्रष्टुं नैव गतवान् कदाचित् !!' । (२) पीडा वेदना च ..एकस्य महात्मनः केनचन गभीररोगेण शस्त्रक्रिया कर्तव्याऽभवत् । एकेन विश्रुतेन शस्त्रक्रियाचिकित्सकेनाऽतीव सावधानतया तस्य शस्त्रक्रिया कृता । यदा च स महात्मा सज्ञामलभत तदा चिकित्सकस्तं पृष्टवान् - 'महानुभाव ! भवच्छरीरे कुत्रचिदपि काऽपि पीडा वेदना वा जायते वा? कृपया कथयतु' । महात्मा नैवोदतरत् । चिकित्सको वारं वारं तदेव पृष्टवान् तथा सनिर्बन्धं कथितवान् - 'यदि भवान् न कथयेत् तदा वयं तदनुरूपमौषधं कथं दास्यामो भवते ? अतः कथयतु कृपया । भवतो व्रणं रूढं न वेति ज्ञातुमिच्छामो वयम्' । तदा महात्मना कथितं – 'शारीरिकी पीडा तु भवत्येव किन्तु तया मम न काऽपि हानिः, यतो मे आत्मनस्तया न काऽपि वेदना भवति !'
SR No.521034
Book TitleNandanvan Kalpataru 2015 08 SrNo 34
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2015
Total Pages86
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy