________________
(३) पापी कः? चीनदेशस्येयं घटना । एकस्यां कृषिभूमौ दश कृषीवलाः कार्यं कुर्वन्ति स्म । अथाऽकस्मादेव मेघगर्जनमारब्धं विद्युतश्च स्फूर्जनपूर्वकं मुशलधारया वृष्टिः समारब्धा । कृषीवला निजनिजं शिरस्त्राणं रक्षन्तः समीपस्थे देवालये आश्रयं गृहीतवन्तः । वृष्टेर्वेगो वृद्धि गतः । सहसा तडित्पातोऽभवत् देवालयस्य चाऽग्रभागो ध्वस्तो जातः । भित्तयः कम्पितुमारब्धाः । एकेन कर्षकेण कथितं - 'भगवान् ह्यस्मभ्यं कुपितोऽस्ति - इति तर्कये । अस्माकमेकेन केनचित् किञ्चिदपि महापापं कृतमस्ति' । तदाऽन्ये वदन् - ‘एवं, तर्हि स इतो बहिनिष्कासनीयः कथमपि मृगयित्वा । तदैव भगवान् प्रसन्नो भविता' । अथैकोऽवदत् - 'वयं सर्वेऽपि स्वीयस्वीयं शिरस्त्राणं वातायनाद् बहिर्धारयामः, भगवानेव पापिनं निरूपयिष्यति' ।
सर्वेऽपि तच्छ्रद्धाय वर्षति जले वातायनाद् बहिर्हस्तं निष्कास्य शिरस्त्राणं च धारयित्वा स्थिताः । सहसैव तडित्पातोऽभवत् कर्षकस्य चैकस्य शिरस्त्राणं भस्मसादभवत् । सर्वेऽपि कथितवन्तः - 'अयमेव स पापी । निष्कास्यतां स बहिः' । स दीनवदनः साश्रुनयनश्च प्रार्थितवान् - 'कृपयैवं मा कुर्वन्तु । नाऽहमस्मि पापी । परिश्रमेणैव जीविकां प्राप्नोम्यहं, न पुनर्यथाकथञ्चित् । मम पत्नी लघूनि चाऽपत्यान्यपि सन्ति । यद्यहं म्रियेय तर्हि तेषां को वाऽऽधारः ? कृपया मां बहिर्मा निष्कासयन्तु' ।
किन्तु न कोऽपि तस्य वचनान्यवाधारयत्, निर्दयतया च तं देवालयाद् बहिरपासारयन् । रुदन् स यथाकथञ्चित् कस्यचन् वृक्षस्याऽधस्ताद् गत्वा स्थितः ।
यावच्च स तत्र तिष्ठति तावदेव पुनरपि देवालयस्योपरिष्टात् तडित् पतिता, तत्र स्थिताश्च नवाऽपि कर्षकाः क्षणार्धेनैव भस्मीभूता अभवन् । प्राय एतावत्पर्यन्तं ते तस्यैकस्य कर्षकस्य पुण्यैरेव जीवन्तः आसन्ननु !! को वा जानीयात् ??
(४) गुरोरन्वेषणम् एको युवा गुरुमन्विष्यन् आश्रममागतः । गुरुर्हि तदाऽन्यान् जिज्ञासून उपदिशति स्म । अनेनाऽपि तस्योपदेशः श्रुतः । तदनन्तरं स कांश्चन शिष्यानकथयत् – 'भोः ! अहं त्वत्र गुरोः सकाशाद् गभीरं तत्त्वज्ञानं प्राप्तुमागत आसम् । किन्तु गुरुः सामान्यमुपदेशमेव ददानो मां निराशं कृतवान् । अधुना किं करवाणि ?' तदैकेन शिष्येण सस्मितमुक्तं - 'बन्धो ! गुरुहि चर्मकारसदृशोऽस्ति । चर्म गृहीत्वोपविष्टोऽस्ति। अस्मत्प्रमाणानुसारं च तत् कर्तयित्वा पादत्रे च सीवित्वा ददाति !!