SearchBrowseAboutContactDonate
Page Preview
Page 62
Loading...
Download File
Download File
Page Text
________________ अनुवाद: शान्तिः | मुनिधर्मकीर्तिविजयः या शान्तिः परिपक्वबोधतो जायते सा शान्तिर्दीर्घकालीना भवति । काऽपि घटना परिस्थितिश्च तां शान्तिमशान्तिरूपेण परावर्तयितुं न शक्नोति, यतस्सा शान्तिद्वंयोझझावातयोर्मध्ये प्रवर्तमाना क्षणिका शान्तिर्नास्ति किन्तु शाश्वता चिरञ्जीवीनी शान्तिरस्ति । एतादृशीं शान्ति प्राप्तुं जना न शक्नुवन्ति, यतस्तेषां धीनिं च नास्ति । ते जनाः क्षतिवशादपवित्रतावशाच्चाऽज्ञानिनोऽन्धाश्च सन्ति । यावन्नेच्छेयुस्ते क्षति संमार्जयितुमपवित्रतां च दूरीकर्तुं तावत्ते संपूर्णतयाऽज्ञानिन एव तिष्ठेयुस्तथा न च कदाचिदप्याध्यात्मिकमार्गे गन्तुं शक्ताः स्युः । अनुवाद: दुःखम् मुनिधर्मकीर्तिविजयः - अस्माकं दुःखं न्यायपूर्णमस्ति । तदुःखमस्माकमज्ञानस्य क्षतेर्दुष्कृत्यानां चैव फलमस्ति । तदुःखं त्वं स्वयमेवाऽऽमन्त्रयसि, न कोऽपि त्वामाग्रहयति । यद्येवं न स्यात्तर्हि स तत्परिणामाद् मुक्तो भवेत्तथाऽन्यो निरपराधिजीवस्तत्फलमुपभुज्यात् । किञ्च न्यायो नाम सिद्धान्त एव न तिष्ठेत्तर्हि, तं न्यायं विना सर्वमपि जगत् न क्षणमात्रं तिष्ठेत्, सर्वतोऽराजकताऽव्यवस्था च प्रसरेत् । बाह्यदृष्ट्याऽन्यजनेन जीवो दुःखीभवतीत्याभासते, किन्तु सा केवलं भ्रमणैव । सत्यं ज्ञानं यदा प्राप्यते तदा सा भ्रमणाऽदृश्यैव भवति । ५३
SR No.521034
Book TitleNandanvan Kalpataru 2015 08 SrNo 34
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2015
Total Pages86
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy