SearchBrowseAboutContactDonate
Page Preview
Page 16
Loading...
Download File
Download File
Page Text
________________ सन्ध्याभ्ररागप्रतिमो हि लोके, निरीक्ष्यतेऽस्मिन् स्वजनानुरागः । विरूपतां याति प्रतिक्षणं यः, काऽऽस्था सतां तत्र विनाशशीले ? ॥१९॥ विमुच्य मोहं तत एव पूज्ये !, ___ अनुज्ञापय द्राङ् मम संयमाय । शुभाशिष चाऽर्पय मे प्रसद्य, यतोऽद्यतः स्वस्थमना भवेयम् ॥२०॥ स्थिरत्वमित्यात्मभुवोऽवगत्य, ___ स्नेहं जहौ तद्विषयं कथञ्चित् । . दधौ च चित्ते परमां प्रसत्तिं, ___ सुतः स्वकीयोऽजनि संयतो यत् ॥२१॥ निजं पुरं प्रस्थितयोहि पित्रोः . प्राप्यातिहर्षं स्तुतयोर्जनौधैः । स्वाध्यायमग्नो विनयेन नम्रः, - सत्प्रीतिपात्रं भवति स्म नेमिः ॥२२॥ स पाठकाच्छ्रीमणिशङ्कराऽऽख्यात्, प्रारब्धवान् व्याकरणादिपाठम् । जग्राह विद्यां प्रथमोदबिन्दु, महीव सच्छास्त्रविशुद्धबोधाम् ॥२३॥ ज्येष्ठस्थितिर्भावपुरे स्वकीया ऽऽद्याऽभूत् सह श्रीगुरुणा महद्धौ । उपादिशत्तत्र गुरुमहीयान् जैनागमं भव्यजनेभ्य इद्धम् ॥२४॥ इयेष सोऽभ्यासरतोऽपि चित्ते, व्याख्यानतो बोधयितुं मनुष्यान् । प्रागाभिधानं दरबारयुक्तं, पुरो निवेश्याऽभ्यसनं ततान ॥२५॥
SR No.521034
Book TitleNandanvan Kalpataru 2015 08 SrNo 34
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2015
Total Pages86
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy