________________
उवाच चैनं मुनि नेमनामा,
भद्राऽऽगते पर्वणि वार्षिकाऽऽकें । श्रोतुं न सम्यक् प्रभविष्यसि त्वं,
जनप्रवादेन हि कल्पसूत्रम् ॥२६॥ अतः स्थिरं चित्तमलं विधाय,
____ मत्तोऽधुनाऽऽकर्णय कल्पसूत्रम् । कृत्वेति तं श्रावकमुत्सुकं स,
व्याख्यातुमारब्ध सुमुक्तकण्ठम् ॥२७॥ कार्यप्रसङ्गेन ययौ कदाचिद्,
___ रहःस्थले तत्र गुरुस्तदीयः । अलक्षितस्तेन निशम्य तस्य,
वाचः पटुत्वं नितरां तुतोष ॥२८॥ ... भव्याच्छभावाम्बुधिवृद्धिचन्द्रे,
दुर्भद्यकर्मादिविभेदवजे । समागते पर्वणि वार्षिके तान्,
___गुरुर्जगादाऽमरचन्द्रमुख्यान् ॥२९॥ भो भो ! दिने श्चो भवतां समझें,
नेमोऽयमारव्यास्यति कल्पसूत्रम् । आश्चर्ययुक्तान् पुनराह वीक्ष्य,
यथार्थमारव्यामि न धत्त शङ्काम् ॥३०॥ गुरुस्तुरीये दिवसेऽथ वाग्मि
नैकेन साकं मुनिना सभायाम् । स्वीयोत्तरीयं परिधाप्य नूलं,
सम्प्रेषयामास गभीरवृत्तिः ॥३१॥ व्याख्यानमद्याऽस्ति मयाऽर्पणीय
मेवं न जानन् परिषद्यगात् सः । व्याख्याय पूर्व मुनिनाऽथ किञ्चि
दाज्ञापितो नेममुनिस्ततोऽभूत् ॥३२॥