SearchBrowseAboutContactDonate
Page Preview
Page 18
Loading...
Download File
Download File
Page Text
________________ . आज्ञप्तमेतद् भवता मुने ! कि मारव्यायतां सम्प्रति किं करिष्ये ? मुनिर्जगौ वेद्मि परं न किञ्चिद् गुर्वाज्ञयैवेदमकुर्वि कार्यम् ॥३३॥ गुरोर्निदेशं शिरसाऽवधार्य, व्याख्यातमेतेन सुचारुरीत्या । प्राशंसि लोकैः पुरतो गुरोस्तद्, द्वारं शुभारम्भ इहाऽस्ति सिद्धेः ॥३४॥ अध्यैष्ट विज्ञानमणिशङ्कराऽऽख्यात, स चन्द्रिकाव्याकरणञ्च काव्यम् । न किन्तु तृप्तिं मतिराप तस्य, जिज्ञासमानस्य महामहान् ॥३५॥ कथाप्रसङ्गे गुरुवृद्धिचन्द्रः स्वीयान् जगाद श्रमणान् निशायाम् । न पाणिनीयं बहुलाच्च काला . दधीतवान् व्याकरणं हि कोऽपि ॥३६॥ अतः पठेत् कोऽपि मुनिर्भवत्सु, ____ तन्मे मनस्तयधिकं प्रसीदेत् । गुरुक्तमेतद्धृदि सम्प्रधार्य, ___पाठाय तस्याऽऽदृतनिश्चयोऽभूत् ॥३७॥ अन्वेषणात्तत्र पुरे समन्ता दवापि भानुः किल शङ्करान्तः । प्राचार्य आसीत् स तु राजकीये, विद्यालये विज्ञतमस्तदानीम् ॥३८॥ अथ प्रशस्ते दिवसे स नेमः, प्रारब्धवान् व्याकरणं ततो ज्ञात् । एकाग्रचित्तेन सदा पठन् स, मनीषिणश्चित्तमलं जिगाय ॥३९॥
SR No.521034
Book TitleNandanvan Kalpataru 2015 08 SrNo 34
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2015
Total Pages86
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy