________________
काव्यानुवादः | (संस्कृतानुवाद:)
नास्ति कोऽपि हेतुः। डॉ. किशोरचन्द्र पाठकः
ममोदरे ज्वलन्तमग्नि शमयितुं यदि न ते समर्थाः, तर्हि भस्मसात् कुरु जगत: सर्वान्नन्नभाण्डागारान् । यतस्तेषां सद्भावे . नास्ति कोऽपि हेतुः ।। मम वस्त्रहीनवपुषः संवरणे यदि वन्ध्यानि तानि, तर्हि प्रज्वालय सर्वाणि वस्त्रनिर्मातृणि वस्त्रयन्त्रगृहाणि । यतस्तेषां सद्भावे . नास्ति कोऽपि हेतुः । विपुले पृथिवीतले मत्कृते निवसनार्थं कुट्येकापि न भवेत्,
तर्हि विध्वंसय सर्वाणि नभस्स्पॅशि महालयानि । यतस्तेषां सद्भावे नास्ति कोऽपि हेतुः ! अस्मिन् मम जीवनप्रसरे प्रकाशलेशप्रसरणे यदि निरवकाश: स:, तर्हि निर्वापय अमुं दीप्तिमन्तं सूर्यम् । यतस्तस्य प्रकाशने नास्ति कोऽपि हेतुः ! एवञ्च अस्मिन् जगतीतले जनिं प्रदाय स्वकर्तव्यपराङ्मुखो यदि ईश्वरः, तर्हि उच्यतां स यत् संवृणोतु स तस्य सकलां सृष्टिं सर्वाश्च लीलाश्च । सुखं च शेतां क्षीराब्धौ मसृणायां शेषशय्यायाम् । यतो नष्टाधिकारस्य तस्य जगत्यां जागरणे नास्ति कोऽपि हेतुः !
~~Xwww
पद्मपाणि, ७, आनन्दनगर, चक्करगढ रोड़,
अमरेली-३६५६०१