SearchBrowseAboutContactDonate
Page Preview
Page 77
Loading...
Download File
Download File
Page Text
________________ (न्यायालये-) दग्धः अयं यः पुरत उपविष्टोऽस्ति स सर्वथा विश्वासघाती । पूर्वं त्वयमस्मत्पक्षे आसीत् किन्तु सहसैव विरोधिनां पक्षे सम्मीलितः । विदग्धः मां कथयतु कृपया, विरोधिनां पक्षे स्थितः कश्चन यदि सहसाऽस्मत्पक्षं समागच्छेत् तदा कि भवेत् ? दग्धः तत्तु हृदयपरिवर्तनं भवेत्, न पुनर्विश्वासघात: !! भिक्षुकः कृपया किञ्चन ददातु, अतीव क्षुधितोऽस्मि । दिनत्रयान्न किञ्चित् खादितम् । युवकः दानेच्छा त्वस्ति, किन्तु मत्पाबें पञ्चशतरूप्यकपत्रमेवाऽस्ति, परीवर्तस्तु नास्ति । भिक्षुकः परीवर्तं त्वहं दास्ये । (शतरूप्यकपत्राणि निष्कासयति) युवकः अहो ! तर्हि त्वनेन धनेनैव किञ्चित् खादतु !! एकस्मिन्नभियोगे एका वृद्धा महिला साक्षित्वेन न्यायालये समाहूता । न्यायपञ्जरे स्थितां तां सर्वकारीयोऽभिभाषकोऽपृच्छत् - .. 'पितामहि ! किं भवती मामभिजानाति वा ?' साऽवदत् प्रोच्चैः - 'कथं नाऽभिजानीयाम् ? त्वामहं त्वज्जन्मप्रभृत्येव जानामि । त्वं हि बाल्यादेव दुष्टो दुर्ललितश्चाऽसि । त्वया खलु निजपत्न्यपि दुःखीकृता, प्रत्यहं च नैके साक्षिणस्त्वया सामदान-दण्ड-भेदैर्वशीक्रियन्ते - इत्येतत् सर्वमपि मम ज्ञातमेव सम्यक् । त्वं हि स्वं निपुणं चतुरं च मन्यसे परन्तु समाजे तव प्रतिष्ठा सर्वथा नाऽस्ति' ।। श्रुत्वैतत् स सर्वथा हतप्रभोऽभवत् । वृद्धया हि सर्वजनसमक्षं तस्य यशो धूलिसात् कृतमासीत् । तथाऽपि कथमप्यात्मानं संयम्य सोऽपृच्छत् - ___'अस्तु मातः !, किन्तु भवती प्रतिपक्षीयमभिभाषकं जानासि वा?' साऽवदत् - 'आम् आम्! तं महेशकं त्वहमापादमस्तकं जानामि । बाल्ये तस्य मूत्र-पुरीषादिकमपि मयैव क्षालितमासीत् । स तु सर्वथाऽलसस्तुन्दपरिमृजो मद्यपश्चाऽस्ति । पदे पदे कलहकरणमेव तस्य रुचिः । द्वि-त्राभिर्महेलाभिस्तस्याऽनैतिकसम्बन्धोऽपि श्रूयते । तासु च महिलासु ते पत्न्यप्यन्यतमा' । प्रतिपक्षीयोऽभिभाषकोऽपि तन्निशम्य त्रपावनतमुखो स्तब्धश्च सञ्जातः । एतावता न्यायाधीशस्तौ द्वावपि स्वसमीपमाहूय मन्दमवदत् - 'यधुवयोरेकतरोऽपि ममाऽभिज्ञानविषये तां पृच्छेत् तदा युवां द्वावप्यहं विद्युदासन्दे उपवेश्य विद्युत्प्रवाहनोदनेन मारयिष्यामि' इति !! ६८
SR No.521034
Book TitleNandanvan Kalpataru 2015 08 SrNo 34
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2015
Total Pages86
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy