________________
प्रास्ताविकम्......
शिक्षणमेव विचारयामस्तावत् ।
पूर्वं ह्यस्माकं देशे गुरुकुलेषु पाठशालासु च तादृशी शिक्षणव्यवस्थाऽऽसीद् यत्र विद्यार्थीनां बालकानां रसं रुचि स्वभावं परिस्थिति क्षमतां चेत्यादिकं सर्वमपि मनसिकृत्यैव शिक्षा दीयते स्म । न पुनरेकविधमेव सामान्यं शिक्षणकर्म सर्वेषामपि विद्यार्थिनां कृतेऽनुष्ठीयते स्म । ततश्च प्रत्येकं विद्यार्थी स्वीयरस - रुचि - क्षमताद्यानुसारं निजनिजेप्सिंतविषये निष्णातो भवितुमर्हति स्म । माता - पित्रोरप्यत्र विषये न काचिद् विप्रतिपत्तिरासीत् । यतस्तौ हि निजं बालकं गुरुकुले आचार्यस्य सांनिध्ये मुक्त्वा निश्चिन्ता भवन्ति स्म यद् - आचार्योऽस्मद्बालकं ह्युत्तममानवत्वेन, नागरिकत्वेन सामाजिकव्यक्तित्वेन च सर्वथा सन्नद्धं करिष्यति - इति, स च निजं जीवनं सुखेन निर्वोढुं सुतरां समर्थो भविष्यति - इति, यत्र कुत्राऽपि च क्षेत्रे स सफलो भविष्यत्येवेति च ।
एतद्विपरीततयाऽद्यत्वे तावत् पाश्चात्यशिक्षणपद्धतेः कुप्रभावेण प्रथमं तावत् तादृशानि गुरुकुलान्येव न सन्ति, प्रत्युत केवलमर्थोपार्जनरतानां वाणिज्यकारिणां व्यावसायिक्यः संस्थाः सञ्जाताः सन्त्यस्माकं देशस्य शालाः । अपवादभूतास्तु शाला निश्चप्रचं विद्यन्ते एव परं सर्वत्र दावानले प्रसृते एकस्य कूपस्य जलं किं वा कर्तुं शक्तम् ? एतासु च संस्थासु विद्यार्थिनां रस - रुचि - स्वभाव-परिस्थिति-क्षमताद्यं नैव विचार्यते, न वा तदनुसारं विद्यादानं क्रियते, प्रत्युत सर्वेषामपि कृते एकविध एव शिक्षणक्रमो निर्धार्यते यं पठित्वा बालकस्य मानवता नैव विकासं प्राप्नोति, नैतिकता चाऽपि नोन्नता भवेत्, क्षमता चाऽपि नैव वर्धेत, प्रत्युत तन्मनस्यधिकाधिकतया धनार्जनेच्छैव वर्धते । 'जीवने एकत्राऽपि क्वचित् क्षेत्रे मया साफल्यमौन्नत्यं वा प्राप्तव्य' मिति भावनाया बीजानि बालकस्य मनसि न कदाऽप्युप्यन्तेऽस्मच्छालासु शिक्षकैः परं सातत्येन व्यवसायलक्ष्या विषया अध्याप्य केवलं धनार्जनस्यैव बीजानि उप्यन्ते । तथैवाऽस्माकं महाविद्यालयानां विश्वविद्यालयानां च परिस्थितिं दृष्ट्वा तु किं कर्तव्यं ? हसनीयमुत रोदनीयमित्येव न ज्ञायते ।
I
अत्र विषये पाश्चात्यदेशेषु बहुत्राऽन्यत्राऽपि च देशेषु विश्वविद्यालयानां स्वरूपं सर्वथा प्रशस्यमस्ति । जर्मनीदेशे क्वचन विश्वविद्यालयेऽधीयानो युवक एकोऽस्मत्समीपमागत्य तत्रत्यां शिक्षणपद्धतिं वर्णितवान् - तत्र हि प्रत्येकं विद्याशाखानां कृते द्विशताधिकानि प्रकरणानि भवन्ति । प्रत्येकं प्रकरणानां कृते निश्चिता: गुणाङ्का भवन्ति, निश्चिताः प्राध्यापकाश्च भवन्ति । विद्यार्थी हि तेभ्यः प्रकरणेभ्यः कानिचिदपि प्रकरणानि निजनिजरुच्यनुसारं चेतुमर्हति, केवलं तेषां प्रकरणानां गुणाङ्काः सम्मील्य चतुःशतं स्युः । एतदर्थं च
5