SearchBrowseAboutContactDonate
Page Preview
Page 7
Loading...
Download File
Download File
Page Text
________________ तत्रत्याः प्राध्यापका अपि मार्गदर्शनं कुर्वन्ति । ततस्तत्तत्प्रकरणानामध्ययनार्थं तत्तत्प्राध्यापकानां वर्गा अपि भवन्ति, ते व्यक्तिगतरूपेणाऽपि मार्गदर्शनं तदध्यापनं च कुर्वन्ति, कक्ष्यायां वा निजगृहेषु वोद्यानेषु वाऽपि । न किमपि बन्धनं भवति तदर्थम् । यदा च स विषयो विद्यार्थिना सम्यगधीतो भवेत् तदा स तत्प्राध्यापकं ज्ञापयेत्, स च प्राध्यापको विद्यार्थिन: परिस्थित्यनुसारं लिखितां मौखिक प्रायोगिकीं वा परीक्षां कुर्यात्, तदनुसारं च गुणाङ्कानपि दद्यात् । ( एतत्सर्वमपि व्यक्तिगतरूपेणैव भवेत् न पुनरस्मद्विद्यालयेष्विव सामूहिकरूपेण ।) यदा च विद्यार्थिनश्चतुःशतं गुणाङ्काः लभ्येरन् तदा स स्नातकपदवीं लभेत । एतदर्थं च कालस्याऽपि न कोऽप्यवधिर्निश्चितो भवति । अतीव तेजस्वी विद्यार्थी वर्षेणैकेनाऽपि स्नातको भवेत्; कश्चन वर्षपञ्चकमपि पठित्वा स्नातको भवेत्, न काऽपि निश्चिता व्यवस्था । प्राध्यापकाः सर्वदाऽपि साहाय्यं कर्तुं पाठयितुं च सन्नद्धा भवन्ति । तेषां धनलोभोऽन्या वा काचन लालसा वा नैव भवति । फलतः सर्वेऽपि विद्यार्थिनो निजनिज-रस- रुचि - क्षमताद्यनुसारं विविधेषु क्षेत्रेषु निश्चप्रचं साफल्यं प्राप्नुवन्ति तेषां चित्ते सुषुप्ततया स्थिता सर्जनात्मकता प्रकटीभवति, परिवारस्य, समाजस्य देशस्य च तेनाऽवश्यं लाभो भवत्येव । किं भवतामेषा पद्धतिरनुसरणीयतयोचिता प्रतिभाति वा ? कृपया विचारयन्तु प्रचारयन्तु चैतत् - इति शम् ॥ कीर्तित्रयी वैशाखी पूर्णिमा, २०७१ लीमडीनगरम् (पूर्वगूर्जरम्) लेखकेषु सूचनाः १. पत्रस्यैकस्यैव पार्श्वे सुवाच्यैरक्षरैः शिरोरेखामण्डितैश्चैव लिखित्वा लेखः प्रेषणीयः । २. Xerox प्रति सर्वथा न परिशीलयिष्यते, तदर्थं च सूचनाऽपि नैव दास्यते । ३. Computer-composed prints स्वीकरिष्यते । ४. अन्यत्र सामयिकेषु समकालीनपुस्तकेषु वाऽपि प्रकाशितं प्रकाश्यमानं वा साहित्यं सर्वथा न प्रेषणीयं कृपया । यदि प्रेषयिष्यते तदा तन्नैव प्रकाशयिष्यते नाऽपि प्रतिप्रेषयिष्यते, तदर्थं च पर्यनुयोगोऽपि नैव करिष्यते । लेखप्रकाशने सङ्कलनकर्तॄणां निर्णय एवाऽन्तिमः । ५. 6
SR No.521034
Book TitleNandanvan Kalpataru 2015 08 SrNo 34
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2015
Total Pages86
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy