________________
वाचकानां प्रतिभावः
महात्मन
नन्दनवनकल्पतरोः त्रयस्त्रिंशी शाखा आमोदं पठिता । तत्र सर्वाः अपि रचनाः उत्कृष्टाः ।
डा. नारायणदाशस्य उद्धरणेभ्यः अवगम्यते यद् महाराणाप्रतापस्य वीरगाथायाः कर्तुः शिवप्रसादभारद्वाजमहाभागस्य काव्यशैली मनोज्ञा अस्ति इति ।
नारायणदाशस्यैव सिद्धार्थग्रन्थसमीक्षा उज्ज्वला ।
श्रीविजयकस्तूरसूरिभिः लिखिता "सीलपालणंमि सच्चवईए कहा" इति प्राकृतकथा अपि मह्यम् अतीव अरोचत ।
इति भवदीयः '' रवीन्द्रः
३३-तम्याः शाखायाः ६७-तमे पृष्ठे द्वितीयखण्डिकायां "पश्चात्तापविधुरा माद्री स्वमुखमपि दर्शयितुं नेच्छितवती इति दृष्टम् । इच्छत्याः क्तवतुरूपं इष्टवान् इत्यस्तीति श्रुतम् । (अत्र इच्छां करोति - इति - इच्छतीति नामधातोः क्तवत्वन्तस्य रूपमेतत् । - सं.)
मुनिधर्मकीर्तिविजयानाम् अभिनवप्रयोगकथायां कल्पतरो ७२-तमे पृष्ठे अन्तिमखण्डिकायाः द्वितीयवाक्ये शुद्धिकरणम् इति दृष्टम् । साधुरूपं तु शुद्धीकरणम् इति खलु ?
तेषामेव दृष्टिभेदः इति कथायां प्रथमवाक्ये प्रयत्नवन्तः इति दृष्टम् । प्रयततेः क्तवत्वन्तं प्रयतवान् इति श्रुतम् । (अत्र प्रयत्नशब्दस्य मतुप्-प्रत्ययान्तस्य रूपमेतत् । - सं.)
७५-तमे पृष्ठे एकान्तस्य रहस्यम् इति कथायाः अन्तिमवाक्ये "अस्माकं प्राप्स्यते'' इत्यस्य प्रयोगसाधुत्वं न च जाने ।
एको वाचकः
आदरणीयाः श्रीविजयशीलचन्द्रसूरीश्वराः,
सादरं नमो नमः ।
नन्दनवनकल्पतरोः द्वात्रिंशत्तमी शाखा पठिता । श्रीमुनिकल्याणकीर्तिविजयस्य "सिद्धार्थः (द्वितीयो भागः)" आन्तं पठितः । रचनाया अस्या भाषाशैली तरला-सरला च । जलवत् तरलतया प्रवहति खलु कथाप्रवाहः । वारं वारं पठनस्य इच्छा भवति । अनेके धन्यवादाः ।
महेश्वरः द्विवेदी
राजकोटस्थः ।