________________
वाचकानां प्रतिभावः
योग्येन योग्यसम्बन्धः सर्वथा सर्वदा भवेत् ।
भवेत्तत्राऽपि साफल्यं यदा सुज्ञोऽस्ति योजकः ॥ युक्तस्य यदि युक्तेन सह विनियोगः न स्यात्, तहि सत्प्राप्तिः शङ्कास्पदा भवेत् । शैक्षणिके सन्दर्भ इदं सविशेष विचार्यम् ।।
वस्तुतः, न कोऽपि शिक्षयति कमपि । शिक्षणं तु स्वयमेव ग्राह्यम् । येन केनाऽपि, बलात्कारेण शिक्षयितुं कृतो यत्नः, विकृतिं जनयति; न शिक्षयति ।
सुजैः शिक्षणकोविदैः सत्यं कथितं यद्, यो न शिक्षयति केवलं प्रेरयति स सर्वोत्तमः शिक्षकः । (One, who does not teach only inspires, is the best teacher.)
शिक्षकेण तु, यस्मिन् कस्मिन्नपि विषये, छात्रस्य रसवृत्तिं ज्ञात्वा, प्रोत्साहनं कार्यम् । तदनु, तत्रत्याम् उज्ज्वलां विकासकर्ती परम्परां, साम्प्रतं च विकास, सहैव बोधयन्, छात्रः समृद्धः कार्यः । एवं भवति सच्चारित्र्यसंवर्धनं, विवेकविकासः, प्रागल्भ्यं च । शिक्षकेण इदमेव कार्यं कार्यम् । परन्तु, साम्प्रते तन्त्रे, स्थितिः विषमैव, विषपूर्णा वा ।
गणनैव गुणाङ्कानां, व्यवहारे विशेषतः । उपेक्षा सद्गुणानां च, धनस्य गौरवं पुनः ॥ एवं, चारित्र्यनिर्माणे, नीतिमूल्यस्य रक्षणे ।
प्रश्नार्थः सद्विकासार्थं, निश्चिताऽवनतिस्स्मृता ॥ .' का मतिः?
अस्माकमेषा चिन्ता सर्वेषां चित्ते स्यात्, तया च, जागृतिश्च भवेदिति प्रार्थ्यते ।
छात्रविकासेन राज्यविकासः, राष्ट्रविकास: विश्वविकासश्चेति निश्चितं ज्ञात्वा, छात्रोन्नत्यर्थं प्रयतितव्यम्; इति शम्।
डॉ. वासुदेवः वि. पाठकः 'वागर्थः'
अहमदाबाद