________________
एको बालको नदीतटाद् गच्छन्नासीत् । एको वृश्चिको जले पतितस्तेन दृष्टोऽतो धावित्वा झटिति सतं हस्ताभ्यां गृहीतवान् । वृश्चिको बालकस्य हस्तोपरि दष्टवान् तद्धस्ताच्च पुनर्जले पतितः । बालकेन शनैरत्यन्तकोमलतया स जलादुद्धृतः । क्षणान्तरेण तेन वृश्चिकेन बालको दष्टः, जले च पतितः । पुनरपि तेनोद्धृतो दष्टवान् । तदा नदीतटे आसीनः कश्चिदपि साधुरवोचत् - रे बालक ! किं मूर्खोऽसि ? वृश्चिक: पुनः पुनर्दशति तथाऽपि कथं तस्य दयां करोषि ?
बालक उक्तवान् - दशनं तस्य स्वभावोऽस्ति । मम स्वभावोऽस्ति - क्षमा करुणा च । पूर्वभवकृतकर्मवशेन एष वृश्चिकः सूक्ष्मजन्तुरूपेण जातः । तज्जातिस्वभावाद् दशति, किन्तु एतादृशानां दुर्बलजन्तूनामनुकम्पैव करणीया, एष मम स्वभावो धर्मश्चाऽस्ति ।
बन्ध ! दुर्जनः सर्वदा दुर्जन एव न भवेत् । कर्मपरिवर्तनेन दुर्जनोऽपि सज्जनो भवितुं शक्तोऽस्ति । यदि दुर्जनः सदा दुर्जन एव भवेत्तर्हि प्रभुनामस्मरणं, प्रभुवचनश्रवणं, प्रभुपूजनं तपःकरणं चेत्यादिकं धर्मानुष्ठानं न कुर्यादेव कोऽपि जीवः, यत एतैः को लाभः ? अस्माभिः श्रूयते एवैष दुष्टोऽपि साधुजनसङ्गेन सज्जनो जातः, एतदेव सूचयति केषाञ्चिदपि परिवर्तनं शक्यमेवाऽस्ति ।
-
चेतन ! 'वालियो' लुण्टाक एव 'वाल्मीकि' - ऋषित्वेन विख्यातो जातः । अद्य सर्वेऽपि जीवाः तत्प्रणीतं रामायणं पठन्ति पूजयन्ति च । तत् पठित्वाऽनेके जीवाः सन्मार्गे संस्थिरा जाताः । एवं परिवर्तनस्य संभावना सर्वेष्वपि जीवेषु भवत्येव । अव्यक्तचैतन्यवति वृक्षेऽपि परिवर्तनं भवेत् तर्हि व्यक्तचैतन्यवति मनुष्ये कथं परिवर्तनं न स्यात् ? शुष्को वृक्षोऽपि जलादिसेचनेन पल्लवितो भवतीति वयं जानीम एव ।
अन्यैर्दृष्टान्तैरलम् । महावीरपरमात्मानं स्मर । न केवलं भारतदेशे, अपि तु विश्वस्मिन् विश्वे यस्य नाम विख्यातमस्ति, तत्प्रस्थापितानां सिद्धान्तानां समादरं वैदेशिकाः जना अपि कुर्वन्ति तस्य महावीर - प्रभोरष्टादशमं भवं स्मर ।
स महावीरप्रभुरष्टादशमे भवे त्रिपृष्ठनामा वासुदेव आसीत् । एकदा रात्रौ सङ्गीतसभा प्रचलन्त्यासीत् । वासुदेवः शय्यापालकमादिष्टवान् - यदाऽहं स्वप्यां तदा सभां विसृजेः इति । वासुदेवः शयितवान् । मधुरगानासक्तः शय्यापालको वासुदेववचनं विस्मृतवान् । वासुदेवो जागृतः । प्रवर्तमानां सङ्गीतसभां निरीक्ष्याऽत्यन्तं क्रुद्धो जातो वासुदेव: । तेनोक्तं - शय्यापालक ! किं ममाऽऽदेशादपि मधुरगानं प्रियं जातं, लभस्व तत्फलम् । तत्क्षणं शय्यापालकस्य कर्णयोः तप्तः सीसकरसः प्रक्षिप्तो वासुदेवेन ।
पश्य, एतादृशनिन्दनीयकार्यकारकोऽपि तीर्थकररूपेण जातः । एतदेव सूचयति यत्, सर्वेषामपि जीवानां परिवर्तनं शक्यमस्ति ।
बन्धों ! एतत्तु कदाऽपि न विस्मर्तव्यं, यत् सर्वेषामपि जनानां हृद्यत्यधिकमात्रया सद्गुण-दुर्गुणाः भवेयुरेव । तत्तन्निमित्तमवाप्य ते गुणाः प्रकटीभवन्ति । इदानींतनो दुर्जनो भविष्यत्काले सज्जनो भवितुं शक्तः, एवं वर्तमानकाले संदृश्यमानः सज्जन आगामिकाले दुर्जनो भवेत्, अतो यदि त्वमात्मोन्नति
४३