________________
मिच्छेस्तर्हि कस्यचिदपि भूतकालीनं कृत्यं न पश्येस्तथा न च तस्य दुष्कृतस्य निन्दामपि कुर्याः, किन्तु तस्याऽनुकम्पामेव कुर्याः ।
जीवनगणनस्य दृष्टान्त एष एव, यद् व्यक्तेभविष्यत्कालं संलन्य भूतकालीनकार्यस्योपेक्षा करणीया। एष एव कल्याणमार्गोऽप्यस्ति । पूज्यपादश्रीहरिभद्रसूरीश्वरः प्राह -
पापवत्स्वपि चाऽत्यन्तं स्वकर्मनिहतेष्वलम् ।
अनुकम्पैव सत्त्वेषु न्याय्यो धर्मोऽयमुत्तमः ।। महोपाध्यायश्रीयशोविजय उवाच -
निन्द्यो न कोऽपि लोकः पापिष्ठेष्वपि भवस्थितिश्चिन्त्या । (अध्यात्मसारग्रन्थे) भोः ! एतदेव वस्तुतो जीवनस्य सत्यं रहस्यमस्ति, तथैव एष धर्मस्य प्रारम्भबिन्दुरप्यस्ति । गणितविषये दीर्घतमगणनायां यदि प्रथममेव स्खलना स्यात्तहि समग्राऽपि गणना स्खलनायुता भवेत्, एषा रीतिर्जीवनविषयेऽपि ज्ञेया।
अन्ते, गुणविकासकरणेन जीवनस्योन्नतिं कुरु, इत्याशासे ।
४४